पूर्वम्: ५।२।६०
अनन्तरम्: ५।२।६२
 
सूत्रम्
गोषदादिभ्यो वुन्॥ ५।२।६१
काशिका-वृत्तिः
गोषदादिभ्यो वुन् ५।२।६२

मतौ इत्येव, अध्यायानुवाकयोः इति च। गोषदादिभ्यः प्रातिपदिकेभ्यः वुन् प्रत्ययो भवति मत्वर्थे ऽध्यायानुवाकयोः। गोषदशब्दो ऽस्मिन्निति गोषडको ऽध्यायो ऽनुवाको वा। इषेत्वकः। मातरिश्वकः। गोषद। इषेत्वा। मातरिश्वन्। देवस्यत्वा। देवीरापः। कृष्णोस्याख्यरेष्टः। दैवींधियम्। रक्षोहण। अञ्जन। प्रभूत। प्रतूर्त। कृशानु। गोषदादिः।
न्यासः
गोषदादिभ्यो वुन्?। , ५।२।६१

"अध्यायानुवाकयोर्लुक्()" ५।२।५९ इति च्छस्य च लुकि प्राप्ते गोषदादिभ्यो वुनारभ्यते॥
बाल-मनोरमा
गोषदादिभ्यो वुन् १८३८, ५।२।६१

गोषदादिभ्यो वुन्। गोषदक इति। गोषदशब्दसंयुक्तोऽध्यायो।ञनुवाको वेत्यर्थः। इषेत्वक इति। "इषेत्वे"ति शब्दयुक्त इत्यर्थः। "अस्यवामीय"मित्यत्रोक्तरीत्या सुपो न लुक्।