पूर्वम्: ५।२।५७
अनन्तरम्: ५।२।५९
 
सूत्रम्
मतौ च्छः सूक्तसाम्नोः॥ ५।२।५८
काशिका-वृत्तिः
मतौ छः सूक्तसाम्नोः ५।२।५९

मतौ इति मत्वर्थ उच्यते। प्रातिपदिकान् मत्वर्थे छः प्रत्ययो भवति सूक्ते सामनि च अभिधेये। मत्वर्थग्रहणेन समर्थविभक्तिः, प्रकृतिविशेषनं, प्रत्ययार्थः इति सर्वम् आक्षिप्यते। अच्छावाकशब्दो ऽस्मिन्निति अच्छावाकीयं सूक्तम्। मित्रावरुणीयम्। यज्ञायज्ञीयं साम। वारवन्तीयम्। अनुकरनशब्दाश्च स्वरूपामात्रप्रधानाः प्रत्ययम् उत्पादयन्ति। तेन अनेकपदादपि सिद्धम्। अस्यवमीयम्। कयाषुभीयम्।
न्यासः
मतौ छः सूक्तसाम्नोः। , ५।२।५८

"मतौ" इति मत्वर्थ उच्यते; साहचर्यात्()। "मत्वर्थेन" इत्यादि। समर्थविभक्तिः प्रथमा, प्रकृतिविशेषणम्()--अस्तित्वम्(), प्रत्ययार्थः--अस्यास्मिन्निति च, सर्वमेतन्मत्वर्थग्रहणेन "आक्षिप्यते" इति। सन्निधाप्यते, उपस्थाप्यत इत्यर्थः। युक्तं यन्मतुब्ग्रहणे प्रत्ययार्थ आक्षिप्यते; तस्य तद्विषयत्वात्()। समर्थविभक्त्यादि कथमाक्षिप्यते? अर्थसाहचर्यात्()॥ अथ वा प्रधानानुवृत्तित्वाद्द्गुणानाम्(), प्राधान्येन प्रत्ययार्थ उपस्थापिते प्रत्ययसामथ्र्यात्? तदपि गुणभूतमुपस्थाप्यत एव। इहास्यवामादिशब्दोऽनेकपदान्तत्वाद्वाक्यम्()। वाक्यस्य चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञा नास्ति, अतस्तेभ्यो न प्राप्नोति; अप्रातिपदिकत्वादिति यश्चोदयेत्(), तं प्रत्याह-"अनुकरणशब्दाश्च" इत्यादि। अनुकरणग्रहणेन च वाक्यत्वमस्यवामप्रभृतीनां निरस्यति। न ह्रनुकरणशब्दानामवयवभूतानि पदानि सन्ति, तत्कुतस्तेषां वाक्यत्वम्()? यतः प्रातिपदिकसंज्ञा न स्यात्()। "स्वरूपमात्रप्रधानाः" इत्यनेनार्थवत्त्वं तेषां दर्शयति। अनर्थकत्वे ह्रर्थवतः प्रातिपदिकसंज्ञाविधानात्? प्रातिपदिकत्वं न स्यात्()। तथा च स एव प्रत्ययाभावः प्रसज्येत। मात्रशब्दोऽर्थान्तरव्यवच्छेदाय। स्वरूपमात्रं प्रधानमभिधेयं येषां ते तथोक्ताः। चशब्दो यस्मादर्थे। यस्मादनुकरणशब्दाः स्वरूपमात्रप्रधानाः प्रत्ययमुत्पादयन्ति, तेनानेकदादपि प्रत्ययाख्यं कार्यं सिद्धम्(); तस्य प्रातिपदिकत्वात्()। अप्रातिपदकत्वञ्च वाक्यत्वादनर्थकत्वाद्वा भवेत्()। न चास्यवामप्रभृतीनां वाक्यत्वम्(); अनुकरणशब्दत्वात्()। नाप्यनर्थकत्वम्(); स्वरूपमात्रेणार्थवत्त्वात्। यदि ह्रस्यवामेत्यादावनुकरणशब्देनानेकानि पदान्यस्यावयवभूतानि सन्ति तत्कथं तेनानेकपदादपि सिद्धमित्युक्तम्()? परप्रसिद्ध्या पदस्य। अस्यवामादयोऽप्येवम्()। एषामनेकावयवाः प्रसिद्धाः; तस्मात्? तत्प्रसिद्ध्यैवमुक्तम्(); न तु विद्यमानानेकपदत्वात्()। अथ कथमनुकरणशब्दाः स्वरूपमात्रप्रदाना भवन्ति, यावतानुकार्यमेव तेषामभिधेयम्(), अतस्तदेव प्रधानस्वरूपम्()? नैतदस्ति; इह हि प्रथमासमर्थादस्तिना समानाधिकरणात्? प्रत्ययो विधीयते। अनुकरणशब्दाश्चानुक्रियमाणेनार्थेनार्थवन्तोऽपि प्रत्यवमृष्टा इतिकरणेन शब्दशब्देन वा प्रथमासमर्थास्तिसमानाधिकरणा भवन्ति। अर्थे हि गुणीभूतानां प्रथमासमर्थत्वमस्त्युपाधिकत्वञ्च नोपपद्यते। तथा ह्रस्यवामोऽस्मिन्नस्तीत्युक्तेऽनुकरणप्रत्यायितस्यानुकार्यस्यैव शत्त्दस्य प्रथमासमर्थत्वमस्त्युपाधिकत्वञ्च गम्यते, न त्वनुकरणशब्दस्य। तस्मादितिकरणेन शब्दशब्देन वाऽवश्यम्भावो प्रत्यवमर्शः। अस्यवाम इत्यस्मिन्नस्त्यवामशब्दो वास्मिन्नस्तीति भेदानुक्रियमाणपदार्थता निवत्र्तते, स्वरूपपदार्थतैवानुजायते। नन्वेवं सति मत्वर्थो नोपपद्यते, अनुकार्या ह्राम्नायशब्दाः सूक्तसाम्नोः सन्ति, न तु तदनुकरणशब्दा लौकिकादयः? नैष देषः; वाक्य स्वातन्त्र्यहेतोरितिकरणादेः सन्निधौ तेन प्रत्यवमृश्यमाना अनुकरणशब्दाः स्वरूपेणार्थवन्तो भवन्ति, वृत्तौ त्वनुकार्येणैव; तत्र स्वातन्त्र्यहेतोरितिकरणादेरभावात्()। वृत्तावेव सूक्तसामनी समत्वर्थवत्तया वक्तुमिष्टे, न वाक्य इति किमत्र नोपपद्यते! अस्यवामशब्दोऽस्मिन्नस्त्यस्यवामीयम्()। कयाषुभाशब्दोऽस्मिन्नस्ति "कयाषुभीयम्()"। योगश्चायं मत्वर्थीयानामपवादः॥
बाल-मनोरमा
मतौ छः सूक्तसाम्नोः १८३५, ५।२।५८

मतौ छः। "मतु"शब्दो मत्वर्थे लाक्षणिक इत्याह मत्वर्थे इति। अच्छा वाकीयं सूक्तमिति। अच्छावाकशब्दोऽस्यास्ति, अस्मिन्नस्तीति वा विग्रहः। अच्चावाकशब्दयुक्तमित्यर्थः। अच्छावाकशब्दाच्छब्दस्वरूपपरात् प्रथमान्ताच्छः। वारवन्तीयं सामेति। "अ()आं नत्वा वारवन्त"मित्यस्यामृच्यध्यूढमित्यर्थः। एवमस्यवामीयमित्यपि। "अस्यवामस्ये"त्यस्य एकदेशानुकरणस्यवामेति। तस्माच्छः। अस्यवामशब्दसंयुक्तमित्यर्थः। "प्रकृतिवदनुकरण"मित्यस्याऽनित्यात्वात्सुपो न लुक्।