पूर्वम्: ५।२।५५
अनन्तरम्: ५।२।५७
 
सूत्रम्
नित्यं शतादिमासार्धमाससंवत्सराच्च॥ ५।२।५६
काशिका-वृत्तिः
नित्यं शतादिमासार्धमाससंवत्सराच् च ५।२।५७

शतादयः संख्याशब्दाः लौकिका गृह्यन्ते। शतादिभ्यः मासार्धमाससंवत्सरशदेभ्यश्च परस्य डटो नित्यं तमडागमः भवति। मासादयः संख्याशब्दा न भवन्ति, तेभ्यो ऽस्मादेव ज्ञापकात् डट् प्रत्ययो विज्ञायते। शतस्य पूरणः शततमः। सहस्रतमः। लक्षतमः। मासस्य पूरनः मासतमो दिवसः। अर्धमासतमः। संवत्सरतमः। षष्ट्यादेश्च असङ्ख्यादेः ५।२।५७ इति वक्ष्यमाणेन सिद्धे शतादिग्रहणं सङ्ख्याद्यर्थम्। एकशततमः। द्विशततमः।
न्यासः
नित्यं शतादिमासार्धमाससंवत्सराच्च। , ५।२।५६

"शतादिग्रणम्()" इत्यादि। संख्यादिभ्यः शतादिभ्यो यथा स्यादित्येवमर्थं शतादिग्रहणम्()। अथ नित्यग्रहणं किमर्थम्(), यावताऽ‌ऽरम्भसामथ्र्यादेव नित्यो विधिर्भविष्यति? भवेच्छतादिभ्य आरम्भसामथ्र्यादित्येवम्()। मासादिभ्यस्त्वन्यतरस्यांग्रहणातुवृत्तेर्विभाषा स्यात्()। ननु चास्वरितत्वादेव निवर्त्तिष्यतेऽन्यतरस्यांग्रहणम्()? विस्पष्टार्थ तर्हि नित्यग्रहणम्()॥
बाल-मनोरमा
नित्यं शतादिमासार्धमाससंवत्सराच्च १८३३, ५।२।५६

नित्यं शतादि। शतादिभ्यो मासात् अर्धमासात्संवत्सराच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः। ननु "षष्ठ()आदेश्चे"त्युत्तरसूत्रेण शततमः सिध्यतीत्यत आह--एकशततम इति। "असङ्ख्यादे"रिति पर्युदासादुत्तरसूत्रस्य नात्र प्रवृत्तिरिति भावः। ननु मासार्धमाससंवत्सरशब्दानां सङ्ख्यावाचित्वाऽभावात्तेभ्यो डट एवाऽप्रसक्तेस्तस्य कथं तदड्विधिरित्यत आह--मासादेरिति। मासतम इति। मासस्य पूरणः-अर्धमासादिरवयवः। अर्धमासतम इति। अर्धमासस्य पूरणस्तिथ्यादिरवयवः। संवत्सरतम इति। संवत्सरस्य पूरणो मासादिरवयवः।