पूर्वम्: ५।२।२२
अनन्तरम्: ५।२।२४
 
सूत्रम्
हैयंगवीनं संज्ञायाम्॥ ५।२।२३
काशिका-वृत्तिः
हैयङ्गवीनं संज्ञायाम् ५।२।२३

हैयङ्गवीनं निपात्यते संज्ञायां विषये। ह्योगोदोहस्य हियङ्गवादेशः, तस्य विकारे खञ् प्रत्ययो भवति संज्ञायाम्। ह्योगोदोहस्य विकारः हैयङ्गवीनम्। घृतस्य संज्ञा। तेन इह न भवति, ह्योगोदोहस्य विकार उदश्वित्।
लघु-सिद्धान्त-कौमुदी
हैयङ्गवीनं संज्ञायाम् ११६९, ५।२।२३

ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते। दुह्यत इति दोहः क्षीरम्। ह्योगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम्॥
न्यासः
हैयङ्गवीनं संज्ञायाम्?। , ५।२।२३

"ह्रोगोदोहस्य हियङ्ग्वादेशः" इति। ह्रोगोदोहस्य हियङ्गशब्द आदेश इत्यर्थः। ह्रौ गोदोहनं ह्रोगोदोहः, "सुप्सुपा" २।१।४ इति समासः। "विकारे खञ्प्रत्ययः" इति। "तस्य विकारः" ४।३।१३२ इति प्राप्तसयाणोऽपवाद इति॥
बाल-मनोरमा
हैयङ्गवीनं संज्ञायाम् १८०१, ५।२।२३

हैयङ्गवीनम्। ह्रसित्यव्ययं पूर्वेद्यरित्यर्थे। तत्रोत्पन्नो गोदोहः=गोपयः-ह्रोगोदोहः। तस्मात्षष्ठ()न्ताद्विकारार्थे खञि ईनादेशे प्रकृतेर्हियङ्गु इत्यादेशे ओर्गुणे अवादेशे आदिवृद्धौ "हैयङ्गवीन"मिति भवतिसंज्ञायामिति भाष्यम्। तदाह--ह्रोगोदोहस्येत्यादिना। नवनीतमिति। भाष्ये तु "हैयङ्गवीनं घृत"मिति दृश्यते। "तत्तु हैयङ्गवीनं स्याद् ह्रोगोदोहोद्भवं घृत"मित्यमरः।

तत्त्व-बोधिनी
हैयङ्गवीनं संज्ञायाम् १३९०, ५।२।२३

हैयंगबीनम्। ह्रोगोदोहस्येति। गोर्दोहो गोदोहः। षष्ठीसमासः। तेन सह ह्रस्शब्दस्य "सुप्सुपे"ति समासः। ततो विकारे अनुदात्तलक्षणस्याऽञोऽपवादः खञ्। अत्र ह्रस्शब्देन कालप्रत्यासत्तिर्विवक्षिता। नवनीतमिति। यद्यिपि वृत्तौ "घृत"मित्युक्तं, तथैव चामरेणा"पि---"तत्तु हैयङ्गवीनं यद् ह्रोगोहोद्भवं घृत"मित्युक्तम्, तथापि घृतशब्देन नवतीतमेव विवक्षितमिति हरदत्तग्रन्थानुरोधेनेदमुक्तम्।