पूर्वम्: ५।२।२१
अनन्तरम्: ५।२।२३
 
सूत्रम्
साप्तपदीनं सख्यम्॥ ५।२।२२
काशिका-वृत्तिः
साप्तपदीनं सख्यम् ५।२।२२

साप्तपदीनम् इति निपात्यते सख्ये ऽभिधेये। सप्तभिः पदैरवाप्यते साप्तपदीनम्। सख्यं जनाः साप्तपदीनम् आहुः। कथं साप्तपदीनः सखा, साप्तपदीनं मित्रम् इति? यदा गुणप्रधानः साप्तपदीनशब्दः सखिभावे तत्कर्मणि च वर्तते तदा सख्यशब्देन सामानाधिकरण्यं भवति, यदा तु लक्षणया वर्तते तदा पुरुषेण सामानाधिकरण्यं भवति।
न्यासः
साप्तपदीनं सख्यम्?। , ५।२।२२

"साप्तपदीनमिति निपात्यते" इति। किं पुनरत्र निपात्यते? प्रत्ययः प्रत्ययार्थश्च प्रकृतः। खञ्प्रत्ययार्थश्चावाप्तिः। सप्तभिः पदैरवाप्यत इति तद्धितार्थे समासः। ततः सप्तपदशब्दात्खञ्()। "कथम्()" इत्यादि। सख्युभविः कर्म वा सख्याम्()। तत्र यदि साप्तपदीनमिति निपत्यते, सखिशब्देन सामानादिकरण्यं न प्राप्नोति, न हि सख्यमेव सखा भवतीति प्रष्टुरभिप्रायः। "गुणप्रधानः" इत्यादि। गुणो भावः कर्म वा प्रधानं यस्य स तथोक्तः। स यदा च गुणमात्रे मुख्यया वृत्त्या वत्र्तते तदा गुणप्रधानो वेदितव्यः। "तदा सख्यशब्देन सामानाधिकरण्यं भवति" इति। द्वयोरप्येकार्थवृत्तित्वात्()। "यदा तु" इत्यादि। लक्षणा उपचारः। धर्मधर्मिणोरभेनोपचारेण गौण्या वृत्त्या तद्धिति संख्यावति पुरुषे वत्र्तते तदानेनैव समानाधिकरणो भवति। यथा यदा शुक्लशब्दो गुणमात्रे वत्र्तते तदा द्रव्यशब्देन समानाधिकरणो न भवति--पटस्य शुक्ल इति, यदा त्वसौ त्वमित्यभिसम्बन्धात्? पटे वत्र्तते तदा सामानाधिकरण्यं भवति--शुक्लः पद इति; तथेहापि वेदितव्यम्()॥
बाल-मनोरमा
साप्तपदीनं सख्यम् १८००, ५।२।२२

साप्तपदीनम्। सप्तपदशब्दात्तृतीयान्तादवाप्यं सख्यमित्यर्थे खञि साप्तपदीनमिति भवतीत्यर्थः। सप्तभिः पदैरिति। पदविक्षेपैरित्यर्थः।

तत्त्व-बोधिनी
साप्तपदीनं सख्यम् १३८९, ५।२।२२

साप्तपदीनम्। योग्यतया समर्थविभक्तिस्तृतीयेति दर्शयति---सप्तभिः पदैरिति। पदमिह संभाषणं पादवक्षेपो वा तद्धितार्थे द्विगुः। अवाप्यतैत्यर्थे खञ्।