सूत्रम्
तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ॥ ५।२।२४
काशिका-वृत्तिः
तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ ५।२।२४
तस्य इति षष्ठीसमर्थेभ्यः पील्वादिभ्यः कर्णादिभ्यश्च यथासङ्ख्यं पाकमूलयोरर्थयोः कुणप् जाहचित्येतौ प्रत्ययौ भवतः। पीलूनां पाकः पीलुकुणः। कर्कन्धुकुणः। कर्णादिभ्यः कर्णस्य मूलं कर्णजाहम्। पीलु। कर्कन्धु। शमी। करीर। कुवल। बदर। अश्वत्थ। खदिर। पील्वादिः। कर्ण। अक्षि। नख। मुख। मख। केश। पाद। गुल्फ। भ्रूभङ्ग। दन्त। ओष्ठ। पृष्ठ। अङ्गुष्ठ। कर्णादिः।
न्यासः
तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ। , ५।२।२४
अणोऽपवादौ। "तस्येदम्()"
४।३।१२० इत्यणि प्राप्ते कुणबदयो विधीयन्ते।
जकारस्य प्रयोजनाभावात्? "धुटू"
१।३।७ इतीत्संज्ञा न भवति॥
बाल-मनोरमा
तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ १८०२, ५।२।२४
तस्य पाफमूले। "पाकमूले" इति समाहारद्वन्द्वात्सप्तमी। पाकः=परिणामः। षष्ठ()न्तेभ्यः पील्वादिभ्यः पाकेऽर्थे कुणप्। कर्णादिभ्यस्तु मूलेऽर्थे जाहजित्यर्थः। कुणपस्तद्धितत्वात्ककारस्य नेत्संज्ञा। जाहचस्तु जकारस्य प्रयोजनाऽभावान्नेत्संज्ञा।
तत्त्व-बोधिनी
तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ १३९१, ५।२।२४
तस्य पाक। पाकः=परिणामः। मूलम्--उपक्रमः। "तस्येद"मित्यणादिषु प्राप्तेष्वयमारम्भः। जाहचो जकारस्य प्रयोजनाऽभावान्नेत्वम्। पीलु, कर्कन्धु,शमी, करीर, कुवल, बदर, [अ()आथ] थदिर--पील्वादिः। कर्ण, अक्षि, नख, मुख,केश, पाद,गुल्फ, भ्रू, श्रृङ्ग, दन्त, ओष्ठ, पृष्ठ,---कर्णादिः।मूलग्रहणमात्रमिति। एकादेशे स्वरितत्वप्रतिज्ञानादिति भावः।