पूर्वम्: ५।२।२०
अनन्तरम्: ५।२।२२
 
सूत्रम्
व्रातेन जीवति॥ ५।२।२१
काशिका-वृत्तिः
व्रातेन जीवति ५।२।२१

निर्देशादेव तृतीया समर्थविभक्तिः। व्रातशब्दात् तृतीयासमर्थात् जीवति इत्यस्मिन्नर्थे खञ् प्रत्ययो भवति। नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः। उत्सेधः शरीरं, तदायास्य ये जीवन्ति ते उत्सेधजीविनः, तेषा कर्म व्रातम्। तेन व्रातेन जीवति व्रातीनः। तेषाम् एव व्रातानामन्यतम उच्यते। यस्त्वन्यस्तदीयेन जीवति तत्र न इष्यते।
न्यासः
व्रातेन जीवति। , ५।२।२१

"नानाजातीयाः" इति। अनेकजातीयाः। "अनियतवृत्तयः" इति। अनियतक्रियाः। "तेषां कर्म व्रातम्()" इति। व्रातसाहचर्यात्? तदपि व्रातमित्युच्यते। अथ वा--व्रातानामिदमित्यर्थविवक्षायां छे प्राप्ते, अस्मादेव निपातनादण्? भवति। तत्पुनः कर्म भारवहनादि। "तत्र नेष्यते" इति। कथं पुनरिष्यमाणोऽपि न भवति प्रकृतायां महाविभाषायां व्यवस्थितविभाषात्वात्()॥
बाल-मनोरमा
व्रातेन जीवति १७९९, ५।२।२१

व्रातेन जीवति। व्रातशब्दात्तृतीयान्ताज्जीवतीत्यर्थे खञ्स्यादित्यर्थः। नानाजातीयानामलब्धजीवनद्रव्याणां भरवहनादिकष्टकर्मजीविनां सङ्घो--ब्राआतः। तस्य यज्जीवनार्थं कष्टं कर्म तदिह व्रातमिति भाष्यम्। तादृशसङ्घावाचिनो व्रातशब्दात् "तस्येद"मित्यणि व्रातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः। तदाह--शरीरायासेनेति।

तत्त्व-बोधिनी
व्रातेन जीवति १३८८, ५।२।२१

शरीरायासेनेति। भारवहनादिनेत्यर्थः। यद्यपि व्रातशब्दो लोके सङ्घातवचनः, तथाप्यत्रत्यभाष्यादिग्रन्थपर्यालोचनया अयमेवार्थ इहोचित इति भावः।