पूर्वम्: ५।२।१३४
अनन्तरम्: ५।२।१३६
 
सूत्रम्
बलादिभ्यो मतुबन्यतरस्याम्॥ ५।२।१३५
काशिका-वृत्तिः
बलादिभ्यो मतुबन्यतरस्याम् ५।२।१३६

बलादिभ्यः प्रातिपदिकेभ्यो मतुप्प्रत्ययो भवति। अन्यतरस्यां ग्रहणेन प्रकृतः इनिः समुच्चीयते। बलवान्, बाली। उत्साहवान्, उत्साही। बल। उत्साह। उद्भाव। उद्वास। उद्वाम। शिखा। पूग। मूल। दंश। कुल। आयाम। व्यायाम। उपयाम। आरोह। अवरोह। परिणाह। युद्ध।
न्यासः
बलपादिभ्यो मतुबन्यतरस्याम्?। , ५।२।१३५

"यद्यन्यतरस्यांग्रहणेन प्रत्ययो विकल्प्यते--बलादिभ्यो मतुब्विकल्पो भवतीति, ततो मतुपा मुक्ते यथाप्राप्तमिनिठनावपि स्याताम्(), इनिरेव चेष्यते, स कथमिनिरेव लभ्यते, यद्यन्यतरस्यांग्रहणेनेनिः समुच्चीयते, न मतुबिति विकल्पेन? इत्येवं चेतसि कृत्वाह--"अन्यतरस्यांग्रहणेन" इत्यादि। ननु यदीनिटनौ द्वावपि स्याताम्(), सूत्रारम्भोऽनर्थकः स्यात्(), विनाऽप्यनेन प्रत्ययस्य सिद्धत्वात्(), तस्मान्मतुपोऽपि विकल्पस्यानेन दोषः? नैतदस्त; आरम्भसामथ्र्यादिनिठनोरन्यतरो भवतीत्येषोऽर्थो लभ्यते, न त्विनिरेव। तस्मादिनिसमुच्चयार्थमेवान्यतरस्यांग्रहणं कत्र्तव्यम्()॥
बाल-मनोरमा
बलादिभ्यो मतुबन्यतरस्याम् १९१७, ५।२।१३५

बलादिभ्यो। मतुबभावपक्षे संनिहित इनिरित्यभिप्रेत्योदाहरति--बलवान् बलीति।

संज्ञायां मन्माभ्याम्। प्रथमिनीति। "पृथ्वादिभ्य इमनिज्वे"ति इमनिजन्तः प्रथमन्शब्दः। अत्र मनोऽनर्थकत्वेऽपि "अनिनस्म"न्निति तदन्तविधिना इमनिजन्तोऽपि गृह्रते। प्रथमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणङीपि प्रथिमिनीशब्दः। दामिनीति। दामन्शब्दादिनौ टिलोपे ङीबिति भावः। मेति। मान्तोदाहरणसूचनमिदम्। होमिनी सोमिनीति। होमशब्दात्सोमशब्दाच्च इनौ ङीबिति भावः।