पूर्वम्: ५।२।१३२
अनन्तरम्: ५।२।१३४
 
सूत्रम्
वर्णाद्ब्रह्मचारिणि॥ ५।२।१३३
काशिका-वृत्तिः
वर्णाद् ब्राह्मचारिणि ५।२।१३४

वर्णशब्दातिनिः प्रत्ययो भवति मत्वर्थे समुदायेन चेद् ब्रह्मचारी भण्यते। ब्रह्मचारि इति त्रैवर्णिको ऽभिप्रेतः। स हि विद्याग्रहणार्थम् उपनीतो ब्रहम चरति, नियमम् आसेवते इत्यर्थः। वर्णी, वर्णिनौ, वर्णिनः। ब्रह्मचारिणि इति किम्? वर्णवान्। ब्राह्मणादयस्त्रयो वर्णा वर्णिनः उच्यन्ते।
न्यासः
वर्णाद्रब्राहृचारिणि। , ५।२।१३३

"समुदायेन चेद्ब्राहृचारी भष्यते" इति। एतेन समुदायोपाधित्वं ब्राहृचारिणो दर्शयति। विद्याग्रहणार्थ यदोपनीयते ततः सेवितव्यो यो नियमविशेषस्तद्ब्राहृआ, तच्चरति ब्राहृचारी, आवश्यके णिनिः। तत्र नियमविशेषचरणे ब्राआहृणादीनामेव त्रयाणां वर्णानामधिकारः, न शूद्रस्येत्याह--"ब्राहृचारीति त्रैवर्णिकोऽभिप्रेतः" इति। त्रिषु वर्णेषु भवः, तत्रान्तर्भूतत्वात्? त्रैवणिकः। किं पुनः कारणं स एवाभिप्रेत इत्याह--"स हि" इत्यादि॥
बाल-मनोरमा
वर्णाद्ब्राआहृचारिणि १९१४, ५।२।१३३

वर्णाद्ब्राहृचारिणि। वर्णशब्दान्मत्वर्थे इनिरेव, समुदायेन ब्राहृचारिणि गम्ये इत्यर्थः। वर्णीति। वर्णः=ब्राआहृणादितत्तद्वर्णोचितवसन्तादिकाले उपनयनम्, सोऽस्यास्तीति विग्रहः।