शाकल्यस्य आचर्यस्य मतेन सर्वत्र द्विर्वचनं न भवति। अर्कः। मर्कः। ब्रहमा। अपह्नुते।
अत्रिप्रभृत्यर्थोऽयमारम्भः। "अर्कः" इत्यादौ "अचो रहाभ्यां द्वे"
८।४।४५ इति प्राप्तिः। आरम्भसामथ्र्यादेवात्रिप्रभृतिष्वपि सिद्धे सर्वत्रग्रहणं पूर्वस्या[पूर्वस्यापि प्राप्ते प्रतिषेधः--प्रांउद्रितः पाठः; कांउ।पाठश्च] अपि प्राप्तेः प्रतिषेधो यथा स्यादित्येवमर्थम्()।
असति तस्मिन्? प्रत्यासत्तेः "अनचि च"
८।४।४६ इत्यस्या एव प्राप्तेस्यं निषेधः स्यात्()।
शाकल्यग्रहणं पूजार्थम्(), न विकल्पार्थम्()। विधिरपि योगद्वयेनोच्यते, प्रतिषेधोऽपि। अत्र सामर्थादेव विकल्पो भविष्यति; अन्यथा विधेरनवकाशः स्यात्()॥