नि इत्येतस्य उपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति गद नद पत पद घु मा स्याति हन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति देग्धि इत्येतेषु परतः। गद प्रणिगदति। परिणिगदति। नद प्रणिनदति। परिणिनदति। पत प्रणिपतति। परिणिपतति। पद प्रणिपद्यते। परिणिपद्यते। घु प्रणिददाति। परिणिददाति। प्रणिदधाति। परिणिदधाति। माङ् प्रणिमिमीते। परिणिमिमीते। मेङ् प्रणिमयते। परिणिमयते। मा इति मङ्मेङोर् ग्रहणम् इष्यते। स्यति प्रणिष्यति। परिणिष्यति। हन्ति प्रणिहन्ति। परिणिहन्ति। याति प्रणियाति। परिणियाति। वाति प्रणिवाति। परिणिवाति। द्राति प्रणिद्राति। परिणिद्राति। प्साति प्रणिप्साति। परिणिप्साति। वपति प्रणिवपति। परिणिवपति। वहति प्रणिवहति। परिणिवहति। शाम्यति प्रणिशाम्यति। परिणिशाम्यति। चिनोति प्रणिचिनोति। प्रिणिचिनोति। देग्धि प्रणिदेग्धि। परिणिदेग्धि। अड्व्यवाये ऽपि नेर्गदादिषु णत्वम् इष्यते। प्रण्यगदत्। परिण्यगदत्।
"धु" इति धुसंज्ञकानां ग्रहणम्()।
"मा" इति "माङ्? माने" (दा।पा।११४२), "मेङ् प्रणिदाने" (धा।पा।९६१) इत्येतयोग्र्रहणम्();
न तु "मीञ्? हिंसायाम्()" (धा।पा।१४७६),
"डु मिञ्? प्रक्षेपणे" (धा।पा।१२५०)--इत्येतयोः "मीनातिमिनोतिदीङां ल्यपि च"
६।१।४९ इति कृतात्त्वयोः, नापि "मा माने" (धा।पा।१०६२) इत्येतस्य। ननु च "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इति सर्वेवामेव ग्रहणेन भवितव्यम्(),
तत्? कथं माङ्मेङोरेव ग्रहणं लभ्यते? नैतदस्ति; इह "द्वन्देव धि"
२।२।३२ "अल्पाच्तरम्()"
२।२।३४ इति वचनमपेक्ष्य "घु" इत्येतस्य पूर्वनिपातमकुर्वता नात्र वचनानुरोधेन प्रवर्त्तितष्यम्(), अपि त्विच्छयेति सूचितम्()। तेन यत्रेच्छा भवति स एव गृह्रते। इच्छालक्ष्यानुरोधान्माङमेङोरेव ग्रहणं भवतीति युक्तम्()। अत एवेच्छयां प्रवर्त्तितव्यमिति सूचनाद्यदापि मेङ आत्त्वाभावे मेत्येतद्रूपं न सम्भवति, तदापि तस्य ग्रहणं भवत्येव--प्रणिमयत इति। "प्रतिपद्यते" इति। दिवादित्वाच्छ्यन्(), अनुदात्तेत्त्वादात्मनेपदम्()।
"प्रणिमिमीते" इति।
जुहोत्यादित्वात्? श्लुः, "श्लौ"
६।१।१० इति द्विर्वचनम्(), "भृञामित्()"
७।४।७६ इत्यभ्यासस्येत्त्वम्(), "ई हल्यघोः"
६।४।११३ इतीत्त्वम्()।
"प्रणिष्यति" इति। "ओतः श्यनि"
७।३।७१ इत्योकारलोपः,
"उपसर्गात्? सुनोति"
८।३।६५ इति षत्वम्()। "प्रणिहन्ति" इत्यादिषु "प्रणिप्साति" इति पर्यन्तेष्वदादित्वाच्छपो लुक्()। "प्रणिशाभ्यति" इति। "शमामष्टानां दीर्घः"
७।३।७४ इति दीर्घः। "प्रणिदेग्धि" इति। "दिह उपचये" (धा।पा।१०१५), लट्(), पूर्ववच्छपो लुक्(), "दादेर्धातोर्घः" (८।२३२) इति घत्वम्(), "शषस्तथोर्धोऽर्थः"
८।२।४० इति धत्वम्(),
"झलां जश्? झशि"
८।४।५२ इति जश्त्वम्()--गकारः।
इह गदादीनां सप्तम्या निर्दिष्टत्वात्? "तस्मिन्निति निर्दिष्ठे पूर्वस्य"
१।१।६५ इति निर्दिष्टग्रहमस्यानन्तर्यार्थत्वावड्व्यवधानान्न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्तुमाह--"अड्व्यवायेऽपि" इति।
कथं पुनरिष्यमाणमड्व्यवाये णत्वं लभ्यते? अत्र चकारस्यानुक्तसमुच्चयार्थत्वात्(), निव्यविभ्योऽड्व्यवायेऽपि" [निव्यभिभ्येऽड्व्यवाये वा छन्दसि" इति सत्रम्()।
इत्यतो मणाडूकप्लुतिन्यायेन "अड्व्यवाये" इत्यस्यानुवृत्तेर्वा।
ननु चाटो गदादिभक्तत्वात्? तस्य ग्रहणेनैव ग्रहणम्(),
तत्? कुतो व्यावायः? नैतदस्ति; अङ्गस्य ह्रडागम उच्यते, विकरणान्तञ्चाङ्गम्()। स ह्रङ्गस्य सङ्घातस्य भक्तः न गदादिमात्रस्य। अतो न शक्यते गदादिग्रहणेन ग्रहीतुम्()॥