सुनोतेः सकारस्य मूर्धन्यदेशो न भवति स्ये सनि च परतः। अभिसोष्यति। परिसोष्यति। अभ्यसोष्यत्। पर्यसोष्यत्।
सनि किम् उदाहरनम्? अभिसुसूषति। न एतदस्ति प्रयोजनम्, तत्र स्तौतिण्योरेव षण्यभ्यासात्
८।३।७१ इति नियमात् न भविष्यति। इदं तर्हि,
अभिसुसूषते? एतदपि न अस्ति, स्थादिष्वभ्यासेन च अभ्यासस्य
८।३।६४ इति नियमात्। इदं तर्हि,
अभिसुसूषतेः अप्रत्ययः अभिसुसूः इत्युदाहरनम् इति? अत्र हि सन्षभूतो न भवति इत्यभ्यासात् प्राप्तिरस्ति।
स्यसनोः इति किम्? सुषाव।