सुञिति निपात इह गृह्यते, तस्य पूर्वपदस्थान्निमित्तातुत्तरस्य मूर्धन्यादेशो भवति छन्दसि विषये। अभी षु णः सखीनाम्। ऊर्ध्व ऊ षु ण ऊतये।
"सात्पदाद्योः"
८।३।११३ इति प्रतिषेधे प्राप्तेऽस्यारम्भः।
ननु चोत्तरसूत्रेणैव "नुभिःष्टुतम्(), गोभिःष्टोमम्()" इत्यत्र षत्वं सिध्यति,
तत्किमर्थमिदमारभ्यते? स्यादेतत्()--समासे सत्येतद्भवति पूर्वपदम्(), उत्तरपदमिति, न चात्र समासः,
तस्मात्? पूर्वपदादि (८।३।
१०६) त्युत्तरेण न सिध्यतीति? एतच्चासम्यक्(),
असमासे यत्? पूर्वपदं तदपि तत्रापि गृह्रते। वक्ष्यति--असमासे [असमासेऽपि यत्पूर्वपदम्()--काशिका।
असमासे यत्? पूर्वपबदं तदपि तत्रापि गृह्रते--प्रांउंयासपाठः। ] यदपि पूर्वपदं तदपि [तदपीह--काशिका] गृह्रते" (काशिका।८।३।
१०४) इति? अत आह--"पूर्वपदादित्येव" इत्यादि॥