अञ्चतेः उत्तरपदस्य निष्थातकारस्य नकारादेशो भवति न चेदपादानं तत्र भवति। समक्नौ शकुनेः पादौ। तस्मात् पशवो न्यक्नाः। अनपादाने इति किम्? उदक्तम् उदकं कूपात्। व्यक्तम् इत्येतदञ्जेः रूपम्।
"न चेदपादानं तत्र भवति" इति। तत्रेत्यनेनाञ्चतिः परामृश्यते। शब्दद्वारेणाञ्चत्यर्थं एवायमपादानस्य प्रतिषेधसामथ्र्याद्विज्ञायते। न ह्रञ्चतावपादानत्वं सम्भवति,
किं तर्हि? तदर्थे क्रियाविषयत्वात्? कारकाणाम्()। तदेतदुक्तं भवति--न चेदञ्चत्यर्थे विषयभूतेऽपादानं न भवतीति। "समक्नौ" इति। सङ्गतावित्यर्थः। "अन्चु गतिपूजनयोः" ["अन्चू" इति काशीमुद्रितः पाठः](धा।पा।१८८) इत्युदित्त्वाद्विभाषितेट्()। [इत्यूदित्त्वात्()--काशीमुद्रितः पाठः] तेन "यस्य विभाषा"
७।२।१५ इति निष्ठायामिट्()प्रतिषेधः, "अनिदिताम्()"
६।४।२४ इत्यनुनासिकलोपः। "उदक्तमुदकम्()" इति। उद्धृतमुदकमित्यर्थः।
अथ व्यक्तमित्यत्र नतवं कस्मान्न भवति? इत्याह--"व्यक्तमित्येतत्()" इत्यादि। "अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु" ["अन्चू" इति। काशीमुद्रितः पाठः] (धा।पा।१४५८) इत्येतस्यैतद्रूपम्(),ित्येतद्रूपम्()--काशीमुद्रितः पाठः] नाञ्चतेः; ततो नत्वमिह न भवतीति भावः॥