सूत्रम्
चिदिति चोपमाऽर्थे प्रयुज्यमाने॥ ८।२।१०१
काशिका-वृत्तिः
चिदिति च उपमार्थे प्रयुज्यमाने ८।२।१०१
अनुदात्तम् इति वर्तते। चितित्येतस्मिन् निपाते उपमार्थे प्रयुज्यमाने वाक्यस्य टेः अनुदात्तः प्लुतो भवति। प्लुतो ऽप्यत्र विधीयते, न गुणमात्रम् अग्निचिद् भाया३त्। राजचिद् भाया३त्। अग्निरिव भायात्, राजेव भायातित्यर्थः। उपमार्थे इति किम्? कथञ्चिदाहुः। प्रयुज्यमाने इति किम्? अग्निर्माणवको भायात्।
न्यासः
चिदिति चोपमार्थे प्रयुज्यमाने। , ८।२।१०१
"चिदिति" इति। इतिकरणः प्रयुज्यमान इत्येतच्छब्दस्य विशेषणमित्यस्यार्थस्य द्योतनाव। असति ह्रेतदर्थं इतिकरणे ह्रुपमार्थेऽन्यस्मिन्? प्रयुज्यमाने चिच्छब्दः प्लवत इति विज्ञायेत। तत्प्रज्यमानतयात्र तस्मिन्? विशेषिते वाक्यस्य टेः प्लतः सिद्धो भवति।
"कतथञ्चिदाहः" इति। अत्र कृच्छ्रे चिच्छब्दो वत्र्तते। "अग्निर्माणवको भायात्()" इति। अग्निरिव माणवको दीप्येतेत्यर्थः अस्तीहोपमार्थः, तथापि चिच्छब्दस्य प्रयोगो नास्तीति न प्लुतो भवति। असति तु प्रयुज्यमानग्रहणे इहोपमानगतौ सत्यां यदप्यन्येषामपि सर्वेषामुपमानार्थानां प्रयोगो गम्यते, तथापि योऽत्र चिच्छब्दस्य प्रयोगस्तदाश्रयः प्लुतः स्यादेव। चकारोस्यैव प्लुतस्य समुच्चयार्थः। समुच्चयश्च भेदाधिष्ठान इति प्लुतानन्तरमेवेदमाख्यातं भवति; अन्यथा पूर्वध्वेव प्लुतनिमित्तेष्वेतस्मिन्? विषयेऽनुदात्तत्वमात्रं विधीयत इति विज्ञायेत॥