पूर्वत्र असिद्धम् इत्यधिकारो ऽयम् आ अध्यायपरिसमाप्तेः। यदित ऊर्ध्वम् अनुक्रमिष्यामः पूर्वत्र असिद्धम् इत्येवं तद् वेदितव्यम्। तत्र येयं सपादसप्ताध्यायी अनुक्रान्ता, एतस्याम् अयं पादोनो ऽध्यायो ऽसिद्धो भवति। इत उत्तरं च उत्तर उत्तरो योगः पूर्वत्र पूर्वत्र असिद्धो भवति असिद्धवद् भवति। सिद्धकार्यम् न करोति इत्यर्थः। तदेतदसिद्धत्ववचनम् आदेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च। अस्मा उद्धर, द्वा अत्र, द्वा आनय, असा आदित्यः इत्यत्र व्यलोपस्य शसिद्धत्वात्, आद् गुणः
६।१।८४ इति, अकः सवर्णे दीर्घः
६।१।९७ इति च न भवति। अमुष्मै, अमुष्मात्, अमुष्मिनिति उत्वस्य असिद्धत्वात् स्मायादयो भवन्ति। शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा। मतोर्वत्त्वे झलां जश्त्वे गुडलिण्मान् निदर्शनम्। शुष्किका इत्यत्र शुषः कः
८।२।५१ इत्यस्य असिद्धत्वादुदीचामातः स्थाने यकपूर्वायाः
७।३।४६ इत्येतन् न भवति। शुष्कजङ्घा इति न कोपधायाः
६।३।३६ इति पुंवद्भावप्रतिषेधो न भवति। क्षामिमानिति क्षामस्य अपत्यं क्षामिः, क्षामो वा अस्य अस्ति इति क्षामी, क्षामिः क्षामी वा यस्य अस्ति इति क्षामिमान्। क्षायो मः इत्यस्य असिद्धत्वान् मादुपधायाश्च इति वत्वं न भवति। औजढतिति वहेर्निष्ठायामूढः, तमाख्यतिति णिच्, तदन्ताल् लुङ्, चङि
६।१।११ इति द्विर्वचने कर्तव्ये ढत्वधत्वष्टुत्वढलोपानाम् असिद्धत्वाण् णौ च यः टिलोपः, तस्य स्थानिवद्भावात् थ इत्येतद् द्विरुच्यते। अनग्लोपे इति प्रतिषेधात् सन्वदित्त्वं न अस्ति, तेन औजढतिति भवति। औजिढतित्येतत् तु क्तिन्नन्तस्य उढिशब्दस्य भवति। गुडलिण्मानिति गुडलिहो ऽस्य सन्ति इति मतुप्, तत्र ढत्वजश्त्वयोरसिद्धत्वात् झयः
८।२।१० इति वत्वं न भवति। ये ऽत्र षष्थीनिर्देशाः, सप्तमीनिर्देशाः, पञ्चमीनिर्देशाश्च, तेषां षष्ठी स्थानेयोगा
१।१।४८, तस्मिन्निति निर्दिष्टे पूर्वस्य
१।१।५९, तस्मादित्युत्तरस्य इति च कर्तव्ये न असिद्धत्व भवति, कार्यकालं हि संज्ञापरिभाषम् इति पूर्वत्वमासां परिभाषाणां न अस्ति इति। विप्रतिषेधे परम् इत्येषा च परिभाषा येन पूर्वेण लक्षणेन सह स्पर्धते, परं लक्षणं तत्प्रति तस्य असिद्धत्वान् न प्रवर्तते। तथा च विस्फोर्यम्, अगोर्यम् इति गुणः परेण हलि च
८।२।७७ इति दीर्घत्वेन न बाध्यते। अपवादस्य तु परस्य अपि उत्सर्गे कर्तव्ये वचनप्रामण्यादसिद्धत्वं न भवति। तेन दोग्धा, दोग्धुम् इत्यत्र घत्वस्य असिद्धत्वाद् हो ढः
८।२।३१ इति न भवति।
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥
एष योगः परिभाषा वा स्यात्? अधिकारो वेति पक्षद्वयं सम्भाव्यते।
तत्र यद्ययं परिभाषा स्यात्? सर्वस्यामष्टाध्याय्याम्पूर्वस्मिन्नुत्तरमसिद्धं स्यात्(), ततश्च "अतो भिस ऐस्()" (७।१।
९) इत्यत्र त्यदाद्यत्वस्यासिद्धत्वात्? तैः, यैः--इत्यत्रैस्भावो न स्यादितीमं परिभाषापक्षे दोषं दृष्ट्वा स्वरितत्वेनाधिकारत्व
१।३।११ मस्येति निश्चित्याह--"पूर्वत्रासिद्धमित्यधिकारोऽयम्()" इति। "अध्यायपरिसमाप्तेः" इति। अवधिप्रदर्शनार्थमेतत्()। "तत्र" इति वाक्योपन्यासे। "सपादा" इति। सह पादेनानन्तरं प्रक्रान्तेन वत्र्तत इति सपादा। "सप्ताध्यायी" इति। सप्तानामध्यायानां समाहारः, "द्विगोः"
४।१।२१ इति ङीप्()।
क्वचित्? "सपादसप्ताध्यायी" इति पाठः, तत्र सपादा चासौ सप्ताध्यायी चेति विशेषणसमासः, पुंवद्भावः। "अयम्()" इति। वक्ष्यमाणः। "पादोनोऽध्यायः" इति। अनन्तरोक्तेन पादेनोनोऽपरिपूर्णः पादोनोऽध्यायः। "असिद्धो भवति" इत्यादि। पादोनाध्यायग्रहणेनोत्तरोत्तरयोगग्रहणेन च शास्त्रासिद्धत्वमिहाश्रीयत इति दर्शयति। कार्यासिद्धत्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हते न पुनर्वेवदत्तस्य प्रादुर्भावो भवति, तथा कार्यस्यासिद्धत्वे तिपादिते न प#उनः प्रकृतेः प्रत्यापत्तिर्भवति। ["प्रादुर्भावो"--प्रांउ।पाठः] ततश्चामुद्धत्वे तुस्मैभावशास्त्रमेव प्रवत्र्तते, न त्वशास्त्रमसिद्धतवामिति न भवत्येष दोषप्रसङ्गः। अपि च शास्त्रस्य मुख्यत्वं पूर्वत्वं कार्यस्यौपचारिकत्वम्()। यस्य कार्यस्य शास्त्रं पूर्वं तदप्युपचारेण पूर्वमित्युच्यते, न स्वत एव तसय पूर्वत्वम्(); सन्निवेशविशेषाभावात्()। कार्यं हि लक्ष्()यगतम्(), तत्र यथा लक्ष्यस्य सन्निवेशो नास्ति तथा तद्गतस्यापि कार्यस्य। न च मुख्ये पूर्वत्वे सति गौणत्वस्य परिग्रहणं मुक्तम्()। तस्माच्छास्त्रं [तस्माच्छास्त्रपूर्वग्रहणेन--प्रांउ।पाठः] पूर्वग्रहणेन गृह्रते। तस्य च पूर्वत्वं परशास्त्रमेवापेक्ष्य भवति। अतो यदपेक्षं तस्य पूर्वत्वं ततः परस्य शास्त्रस्यैवासिद्धत्वमनेन कर्त्तुं युक्तम्()। शास्त्रस्यासिद्धौ च कृतायामर्थतः कार्यासिद्धत्वं कृतमेव भवति; तस्य तन्निबन्धनत्वात्()। सिद्धशब्दो निष्पन्नवचनः। सिद्धं निष्पन्नमित्यर्थः। न सिद्धमसिद्धम्(), अनिष्पन्नमित्युच्यते। परञ्च शास्त्रं यच्च निष्पन्नं तन्न शक्यं वचनशतेनाप्यनिष्पन्नसत्तायामापादयितुम्()। अन्यथा न कश्चिद्()दुःखविवशां दशामनुभवेतु; असिद्धवचनेनैव न दु#ःखस्यानिष्पन्नतापादानात्()। तस्माद्यथा ब्राहृदत्तोऽब्राहृदत्तोऽयमित्युक्तेऽकतिदेशोऽयं गम्यते, तथेहाप्यसिद्धत्वमित्युक्तेऽतिदेशोऽयं गम्यत इत्याह--"असिद्धवद्भवति" इति। एतदेव स्पष्टीकर्तुमाह--"सिद्धकार्यम्()" इत्यादि। एवं हि तदसिद्धवद्भवकति यदि सिद्धस्य यत्कार्यं तन्न करोति।
"तदेतत्()" इत्यादि। तदिति हेतो, यस्मादनन्तरोक्तोऽसिद्धशब्दस्यार्थः, तस्मादेतदसिद्धवचनमादेशलक्षणप्रतिषेधार्थम्()। आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्(), तस्य प्रतिषेधः। सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्()। "उत्सर्गलक्षणभाववार्थं च" इति। उत्सृज्यते निवत्र्यत इत्युत्सर्गः=स्थानिलक्षणम्(), उत्सर्गौ लक्षणं निमित्तं यस्य तदुत्सर्गलक्षणं कार्यम्(), तस्य भाव उपजननमुत्सर्गलक्षणभावः, सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्()। "अस्मा उद्धर" इत्यादि। अस्मै इतोदंशब्दाच्चतुर्थी,
उद्धरेत्यस्मिन्? परत आयादेशः, "लोपः शाकल्यस्य"
८।३।१९ इति वकारलोपः। तत्र कृतेऽकः सवर्णेदीर्घत्वं
प्राप्नोति; वकारलोपस्यासिद्धत्वान्न भवति। "व्यलोपस्यासिद्धत्वात्()" इति। तादथ्र्याद्व्यलोपशास्त्रं व्यलोपशब्देनोक्तम्()। अथ वा--व्यलोपशस्त्रस्यासिद्धत्वाद्व्यलोपस्यासिद्धत्वमित्युच्यते। एवूदाहरणेष्वादेशलक्षणप्रतिषेधोऽसिद्धत्वावचनस्य प्रयोजनम्()। इदानीं येषूदाहरणेषूत्सर्गलक्षणभावः प्रयोजनम्(), तानि दर्शयितुमाह--"अमुध्मै" इत्यादि। अदसश्चतुर्थीपञ्चमीसप्तम्यैकवचनानि।
त्यदाद्यत्वम्? ७।२।१०२।
अत्रासत्यप्यसिद्धत्वे परत्वात्? "अदसोऽसेर्दादु दो मः"
८।२।८० इत्युत्वम्(),
ततश्चाकारान्तस्याभावात्? तन्निबन्धनाः "सर्ववाम्नः स्मै"
७।१।१४, "ङसिङ्योः स्मात्स्मिनौ"
७।१।१५ इति स्मायादयो न स्युः। असिद्धत्वे सति शास्त्रस्य ते भवन्ति। "उत्वस्यासिद्धत्वात्()" इति। अत्रापि तादध्र्यादुत्वशब्देनोत्वशास्त्रमुक्तम्()।
"शुष्किका" इत्यादिश्लोकः।
अत्र "निदर्शनम्()" इत्येतत्? शुष्किकेत्यादिभिः प्रत्यकमभिसम्बध्यते। "झलां चश्त्वे" इति। अत्राप्यसिद्ध इति वृत्तभङ्गभयान्नोक्तम्()। अनुक्तमपि प्रकरणेन ज्ञायते।
"शुष्किका" इति। "शुष शोषणे" (धा।पा।
११८३) इत्येतस्मात्? क्तप्रत्ययः, "शुषः कः"
८।२।५१ इति कादेशः, टाप्(),
अज्ञातार्थे "प्रागिवात्? कः"
५।३।७०, "केऽणः"
७।४।१३ ति ह्यस्वत्वम्(), ततष्टाप्(),
"प्रत्ययस्यात्? कात्()"
७।३।४४ इत्यादिना नित्यमित्त्वं भवति, न तु "उदीचाम्()"
७।३।४६ इत्यादिना पाक्षिकम्(); "शुषः कः"
८।२।५१ इत्यस्यासिद्धत्वात्()।
"शुष्कजङ्घा" इति। शुष्के जङ्घे अस्या इति बहुव्रीहिः, "न कोपधायाः"
६।३।३६ इचि पुंवद्भावनिषेधो न भवति। "शुषः कः"
८।२।५१ इत्यस्यासिद्धत्वादिति प्रकृतेन सम्बन्धनोयम्()। ननु च सत्यप्यसिद्धत्वे नैवात्र पूर्वद्भावप्रतिषेधो न प्राप्नोति, "कोपधप्रतिषेदे तद्धितवुग्रहणं कत्र्तव्य्()" (धा।
७३३) इति वचनात्()? न; वाक्यकारमतमेतत्(),
सूत्रकारमतेन तु श्लोकवार्त्तिककारेण च न चात्रैतत्? प्रयोजनमुपन्यस्तम्()। एतयोर्हि सामान्येन कोपधप्रतिषेधोऽभिमतः।
"क्षामिमान्()" इति। "क्षै जै षै क्षये" (धा।पा।९१३,९१४,९१५), "आदेच उपदेशेऽशिति"
६।१।४४ इत्यात्त्वम्(), "क्षायो मः"
८।२।५३ इति निष्ठातकारस्य मकारः--क्षाम इति स्थिते "अत इञ्()"
४।१।९५ इतीञं कृत्वा "अत इनिठनौ" (५।२।
११५) इतीनिप्रत्ययं वा कृत्वा मतुप्? कत्र्तव्यः।
"वहेः" इत्यादि। "वह प्रापणे" (धा।पा।१००४) इत्येतस्मान्निष्ठा,
सम्प्रसारणम्? ६।१।१५, "हो डः"
८।२।३१ इति ढत्वम्(), "झषस्तथोर्धोऽधः"
८।२।४० इति धत्वम्(), "ष्टुना ष्टुः"
८।४।४० इति ष्टुत्वम्(), "ढो ढे लोपः"
८।३।१३ इति ढलोपः, "ढ्रलोपे पूर्वस्य दीर्घोऽणः"
६।३।११० इति दीर्घः, ऊढ इति स्थिते, तमाचष्ट इति णिच्(),
"णाविष्ठवत्? कार्य प्रातिपदिकस्य" (वा।८१३) इतीष्ठवद्भावाट्टिलोपः, तदन्ताल्लुङ्(), "णिश्रि"
३।१।४८ इत्यादिना चङ्()। अत्र धत्वष्टुत्वादीनामसिद्धत्वाद्योऽसौ णो टिलोपलस्तस्य णौ कृतं स्थानिवद्भवतीति (चांप।पा।
२१) स्थानिवद्भावात्? "चङि"
६।१।११ इति "अजादेर्द्वितीयस्य"
६।१।२ इति ह्त इत्येतस्य द्विर्वचनम्(), "कुहोश्चुः"
७।४।६२ इति चुत्वम्()--महाप्राणस्य हकारस्य स्थाने महाप्राण एव झकारः, "अभ्यासे चर्च"
८।४।५३ इति झकारस्य स्थाने जकारः, "आडजादीनाम्()"
६।४।७२ इत्याट्(), "आटश्च"
६।१।८७ इति वृद्धिः। अथ "सस्वल्लधुनि चङ्परे" (७।४।
९३) इति सन्वद्भावः कस्मान्न भवति? इत्याह--"अनग्लोपे" इत्यादि।
यदि तह्र्रनग्लोप इति प्रतिषेधात्? सन्वद्भावो न भवति तदौजिढदिति ["तदोजढदिति"--प्रांउ।
पाठः] न स#इध्यति? इत्याह--"औजिढत्()" ["औजढत्()"--प्रांउ।पाठः] इत्यादि।
गुडलिण्मान्()" इति। गुडं लेढीति क्विप्(), तदन्तान्मतुप्(), पूर्ववङढत्वम्(), "झलां जशोऽन्ते" (८।२।
३९) इति जश्त्वम्()--ढकारस्य डकारः! मतोर्वत्वे कत्र्तव्य ढत्वजशत्वयोरसिद्धत्वात्? "झयः"
८।२।१० इति वत्वं न भवति। कारिकायां झलां जश्त्वग्रहणमुपलक्षणार्थं निदर्शनमिति।
अनेनैतत्? दर्शयति--निदर्शनमेतच्छुष्किकादीनाम्(), न तु परिगणनमिति।
यदि हि सपादायां सप्ताध्याय्यां कत्र्तव्यायां पादोनोऽध्यायोऽसिद्ध इत्युच्यते तदा य इह षष्ठीनिर्देशसप्मीनिर्देश-पञ्चमीनिर्देशाः क्रियन्ते तेऽप्यसिद्धः स्युः, ततश्च "संयोगान्तस्य लोपः" (८।२।
२३) इत्यत्र षष्ठीनिर्देशस्यासिद्धत्वात्? "षष्ठी स्यानेयोगा"
१।१।४८ इत्येषा नोपतिष्ठेन, एवञ्च सामीप्ययोगाप्येषा षष्ठी स्यातः ततः संयोगान्तसमीपो यस्तस्यापि लोप आपद्येत; "झलो झलि" (८।१।
२६) इत्यत्रापि सप्मीनिर्देशस्यासिद्धत्वात्? "तस्मिन्निति निर्दिष्टे पूर्वस्य
१।१।६५ इत्येषा परिभाषा नोपतिष्ठेत,
तथा च पूर्वस्यैवानन्तरे भवितव्यमिति नियमस्याभावात्? सामान्येन पूर्वस्य परस्य वानन्तरे व्यवहिते झलि लोपः;
"ह्यस्वादङ्गात्? (८।२।
२७) इत्यादावपि पञ्चमीनिर्देशस्यासिद्धत्वात्? "तस्मादित्युत्तरस्य"
१।१।६६ इत्यस्योपस्थानं न स्यात्(),
ततश्चानियमात्? पूर्वस्य परस्य वानन्तरस्य व्यवहितस्य च लोपः प्रसज्येतेत्यत आह--"येऽत्र षष्ठीनिर्देशाः" इत्यादि।
किं पुनः कारणमसिद्धत्वं न भवति? इत्याह--"कार्यकालं हि" इत्यादि। यदि हि "यथोद्र्दशं संज्ञापरिभाषम्()" (व्या।प।५९) स्यात्(), एवमासां परिभाषाणां पूर्वत्वे सति षष्ठोनिर्देशादीनामसिद्धत्वं न स्यात्(), न तु यथोद्देशं संज्ञापरिभावम्(),
किं तर्हि? "कार्यकालं संज्ञापरिभाषम्()" (व्या।पा।५८), कार्यकालाः कार्यप्रयुक्ता हि संज्ञाः परिभाषाश्च। तस्माद्यत्र कार्यं तत्रैव ताः प्रयुज्यन्ते, तेन ता उपदेश एव।
अतो निर्देशैरभिन्नदेशत्वात्? परिभाषाणामत्र पूर्वत्वं नास्ति, ततः कुतस्तासु कत्र्तव्यासु तेषामसिद्धत्वप्रसङ्गः! यदि कार्यकालं संज्ञापरिभाषम्(), "विप्रतिषेधे परं कार्यम्()" (१।४।
२) इत्येषाऽत्रोपतिष्ठेत? तत्र को दोवः? "स्फुर स्फुल सञ्चलने" (धा।पा।१३८९), १३९०), "गुरी उद्यमने" (धा।पा।१३९६)--आभ्यां "ऋहलोव्र्यत्()"
३।१।१२४ इति ण्यति कृते दिस्फोयम्(), अवगोर्यमिति न सिध्येत्()। अस्या हि परिभाषाया उपस्थाने, गुणं परत्वाद्बाधित्वा "हलि च"
८।२।७७ इति दीर्घत्वं प्राप्नोतीत्यत आह--"विप्रतिषेधे परमित्येषा तु" इत्यादि। "विप्रतिषेधे परम्()"
१।४।२ इत्येषा परिभाषाऽत्र न प्रवत्र्तत इति प्रकृतेन सम्बन्धः।
कस्मान्न प्रवत्र्तते? इत्याह--"येन" इत्यादि। द्वयोर्हि तुल्यबलयोर्विप्रतिषेधो भवति। इह तु येन पूर्वेण लक्षणेन "पुगन्तस्य"
७।३।८६ इत्यादिना सह परं लक्षणं स्पर्धते तदप्यभिभवितुमिच्छति। पर#ं लक्षणं "हलि च"
८।२।७७ इत्यादिकम्(),
तत्? पूर्वं प्रति तस्यासिद्धत्वम्()। अतोऽतुल्यबलत्वाद्विप्रतिषेधो नास्तीति "विप्रतिषेधे परम्()"
१।४।२ इत्येषा परिभाषा न प्रवत्र्तते। "तथा च" इत्यादि। एवमस्याः परिभाषाया अप्रवृत्तौ सत्यामित्यर्थः।
यदि तर्हि पूर्वस्मिन्? कार्ये कत्र्तव्ये परमसिद्धं भवति, एवं सत्युत्सर्गे कत्र्तव्ये परस्यापवादस्यासिद्धत्वां सायत्()। ततश्च दोग्धा, दोग्धृमित्यत्र "दादेर्घातोर्घः" (८।२।
३२) इति धस्यासिद्धत्वाङढत्वं स्यात्()? इत्यत आह--"अपवादसर्य तु" इत्यादि। यद्यप्यपवादविषयस्यापि परस्योत्सर्गे कर्त्व्येऽसिद्धत्व स्यात्(), निर्विषयत्वाच्चापवादवचनस्य वैयथ्र्यं स्यात्()। अतोऽपवादस्य परस्यापि वचनप्रामाण्यादसिद्धत्वं न भवति।
ननु च वचनप्रामाण्यात्? पर्यायेण तयोर्भावः स्यात्(),
तत्कुतो वैयथ्र्य प्रसङ्ग? नैतदस्ति; यद्यपवादस्य पर्यायता स्यात्(), "वा द्रुहमुह"
८।२।३३ इति विकल्पेन धत्वविधाननमनर्थकं स्यात्()॥
तथाविधं सूत्रमाह-पूर्वत्रासिद्धम्। पाणिनिप्रणीता अष्टाध्यायी। तत्र अष्टमाध्याये द्वितीयपादस्येदमादिमं सूत्रम्। इतः प्राक्तनं कृत्स्नं सूत्रजालं "सपादसप्ताध्यायी"ति व्यवह्यियते। उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवह्यियत इति स्थितिः। तत्र यदीदं सूत्रं स्वतन्त्रविधिः स्यात्, तदा इतः पूर्वस्मिन् शास्त्रे प्रवर्तमाने उपरितनं शास्त्रमसिद्धं स्यादित्यर्थो लभ्येत। ततश्च सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धेति पर्यवस्येत्। एवं सति त्रिपाद्यामपि पूर्वं शास्त्रं प्रति परं शास्त्रमसिद्धमित्यर्थो न लभ्येत। तथा सति किमु उक्तं किम्वुक्तमित्यत्र "मोऽनुस्वारः" इति शास्त्रं त्रैपादिकं प्रति "मय उञो वो वा" इति वत्वशास्त्रं त्रैपादिकं नासिद्धं स्यादित्यत आह-अधि-कारोऽयमिति। अधिक्रियते उपरितनसूत्रजालशेषत्वेन पठ()त इत्यधिकारः। कर्मणि घञ्। "घञजबन्ताः पुंसि" इति पुंस्त्वम्॥ अयमिति तदपेक्षया पुंलिङ्गनिर्देशः। इदं सूत्रमुपरितनसूत्रेष्वनुवृत्त्यर्थमेव, न तु स्वतन्त्रविधिरिति यावत्। "मय उञो वो वा" इति सूत्रे पूर्वत्रासिद्धमित्यनुवत्र्तते। ततश्च "मयः परस्य वकारो वो वा स्यात्। इदं श#आस्त्रं पूर्वत्रासिद्ध"मिति तदेकवाक्यं संपद्यते। तत्र च अनुवृत्तपूर्वशब्देनैतः प्राक्तनं त्रिपादीस्थं सपादसप्ताध्यायीस्थं च कृत्स्नं सूत्रजालं विवक्षितमिति "मोऽनुस्वारः" इति त्रैपादिकं शास्त्रं प्रति "मय उञो वो वा" इति शास्त्रस्याऽसिद्धत्वं निर्बाधमित्याह-तेनेति। अदिकारत्वेनेत्यर्थः। परं शास्त्रमसिद्धमिति। असिद्धत्वं चाऽत्र नात्यन्ताऽसत्त्वम्। किंतु पूर्वशास्त्रदृष्ठ()एत्यनुपदेमेवोक्तम्। "परं शास्त्र"मित्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्तं कार्यासिद्धत्वमप्रामाणिकमिति ध्वनितम्। कार्याऽसिद्धत्वं पूर्वपक्षयित्वा शास्त्रासिद्धत्वस्यैवात्र सूत्रे, "असिद्धवदत्राभात्" दिति सूत्रे च भाष्ये सिद्धान्तितत्वात्। शास्त्रसिद्धत्वकार्याऽसिद्धत्वयोः फलभेदस्तु शब्देन्दुशेखरे व्यक्तः। अस्माभिश्च स्वादिसन्धौ "मनोरथ" इत्यत्र मूलव्याख्यावसरे , हलन्तशब्दाधिकारे च अदःशब्दप्रक्रियाव्याख्यावसरे प्रपञ्चयिष्यते। तदेवम् "अ अ" इति संवृतविधेः स्वप्राक्तनीं कृत्स्नामष्टाध्यायीं प्रत्यसिद्धत्वात् प्रक्रियादसायामवर्णस्य ह्यस्वस्य विवृतत्वमेव। परिनिष्ठितदशायामेव संवृतत्वमिति स्थितम्। यद्यपि परिनिष्ठ#इतदशायां संवृतविधिः क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते, तथापि परिनिष्ठिते संवृतविंधिबलात्संवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कल्प्यम्, विवृतसंवृतयोरुच्चारणभेदो वा कल्प्य इत्यलं बहुना। अथ बाह्रप्रयत्नान् प्रपञ्चयति--बाह्रप्रयत्नस्त्विति। प्रशब्दोऽत्र चिन्त्यः, प्रशब्दबलेन आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यताया तुल्यास्यसूत्रे उक्तत्वात्, यत्नो द्विधेत्युपक्रमाच्च। अविवक्षितार्थो वाऽत्र प्रशब्दः। उदात्तानुदात्तस्वरितशब्दा धर्मपराः। कस्य को बाह्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थां श्लोकद्वयेन संगृह्णाति--
खयामिति। "यम" शब्दो व्याख्यास्यते। ()आआसोऽनुप्रदानो येषां ते ()आआसानुप्रदानाः=()आआसाख्यबाह्रयत्नवन्तः। विवृण्वते कण्ठमिति। विवार एषां यत्न इति भावः। संवृताः=संवाराख्ययत्नवन्तः। नादभागिनः=नादाख्ययत्नभाजः। अयुग्मा वर्गयमगा इति। कादिपञ्चकं टादिपञ्चकं तादिपञ्चकं पादिपञ्चकमिति पञ्च वर्गाः। वर्गगता यमगताश्च अयुग्माः=प्रथमतृतीयपञ्चमवर्णा इत्यर्थः। अल्पासवः=अल्पप्राणाः।
अथ श्लोकद्वयं व्याख्यास्यन् यमशब्दं तावत्सामान्यतो व्याचष्टे--वर्गेष्वित्यादिना। "आद्यानां चतुर्णा"मिति निर्धारणे षष्ठी। "एकैकस्मा"दित्यव्याहार्यम्। तेन "अन्यारादितरर्ते" इति परशब्दयोगे पञ्चमीप्रसङ्गादाद्यानां चतुर्णामिति षष्ठ()नुपपन्नेति निरस्तम्। यमो नामेति। नामशब्द इतिपर्यायः। तदयमर्थः--कादिचादिटादितादिपादिपञ्चकात्मकेषु वर्णेषु एकैकस्य वर्गस्य आद्यानां चतुर्णां मध्ये एकैकस्मात्पञ्चमे वर्णे परे मध्ये पूर्ववर्णसदृशो वर्णो यम इति प्रातिशाख्ये प्रसिद्ध इति। अथ यमानुदाह्मत्य दर्शयति--पलिक्क्नीत्यादिना तत्सदृशा एव यमा इत्यन्तेन। एवं वर्गान्तरयमानामप्युदाहरणं याच्च्ञेत्यादि द्रष्टव्यम्। तदेवं यमशब्दं सामान्यतो व्याख्याय श्लोकद्वयं व्याचष्टे--तत्रेत्यादिना। तत्र "खय" इत्यस्य व्याख्या--वर्गाणां प्रथमद्वितीयाः खय इति। "खयां यमा" इत्यस्य विवरणं--तथा तेषामेव यमा इति। "क पौ" इत्यस्य विवरणं--जिह्वामूलीयोपध्यमानीयाविति। विसर्गशब्दः प्रसिद्धत्वात् स णवोपात्तः। "शर" इत्यस्य विवरणं--शषसा इति। "एते ()आआसानुप्रदाना अघोषाश्च विवृण्वते कण्ठ"मित्येतद्व्याचष्टे-एतेषां विवारः ()आआसोऽघोषश्चेति। "अन्ये तु घोषाः स्युः संवृता नादभागिन" इत्येतद्व्याचष्टे-अन्येषां तु संवारो नादो घोषश्चेति। "अयुग्मा वर्गयमगा" इत्येतद्व्याचष्टे--वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमाविति। पञ्चमानां यमाऽभावादिति बावः। "यणश्चाल्पासवः स्मृता" इत्येतद्व्याचष्टे--यरलवाश्चाल्पप्राणा #इति। ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम्। अतो न्यूनतेत्याशङ्क्य तदपि परिशेषादुक्तप्रायमित्याह--अन्ये महाप्राणा इति। वर्गाणां द्वितीयचतुर्थाः शलश्च महाप्राणाः " इति।
नन्विह बाह्रयत्नप्रपञ्चनं व्यर्थं, तुल्यास्यसूत्रे प्रयत्नशब्दस्य आभ्यन्तरयत्नमात्रपरत्वादित्याशङ्कते--बाह्रप्रयत्नाश्चेति। "यद्यपी"ति समुदायः शङ्काद्योतकः। परिहरति-तथापीति। सवर्णसंज्ञाप्रस्तावे बाह्रयत्नानामुपयोगाभावेऽपि "स्थानेऽन्तरतमः" इति वक्ष्यमाणान्तरतम्य्विचारे तेषामुपयोगसत्त्वान्न वैयथ्र्यम्। इह तत्प्रपञ्चनं तुल्यास्यसूत्रे आभ्यन्तरत्वविशेषणव्यावर्त्त्यत्वेनोपस्थितत्वात्प्रासङ्गिकमिति भावः। उदात्तादित्रयस्य तु अज्धर्मत्वस्य प्रसिद्धत्वादिह न तद्व्यवस्थोक्ता। अथ स्पृष्टं प्रयतनं स्पर्शानामित्यादिसंदर्भे उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे-कादञ इत्यादिना। क आदिर्येषां ते "कादयः"। मः अवसाने येषां ते "मावसानः"। इदं च लोकप्रसिद्धपाठपेक्षम्।
इति स्थानयत्नविवेक इति। स्थानयत्निविवेचनं समाप्तमित्यर्थः। स्थानप्रयत्नेति प्रशब्दपाठस्तु चिन्त्यः, अविवक्षितार्थो वा "प्र"शब्द। ऋलृवर्णयोर्मूर्धदन्तात्मकभिन्नस्थानकत्वात्सवर्णसंज्ञायामप्राप्तायाम् "ऋकारलृकारयोः सवर्णविधिः" इति तद्विधायकं वार्तिकमर्थतः संगृह्र पठति-ऋलृवर्णयोर्मिथः। आ च आ च रलौ। ऋशब्दस्य च "आ" इति प्रथमैकवचनम्। ऋ लृ औ इति स्थिते लृकारस्य "ऋतो ङि सर्वनामस्थानयोः" इति गुणः, अकारः, "उरण्()परः"इति लपरत्वम्, ञकारस्य यणादेशो रेफः। रलौ च तौ वर्णौ च ऋलृवर्णौ। तयोर्मिथः परस्परं सावण्र्यं=सवर्णत्वं वक्तव्यं, तुल्यास्यसूत्रेण तदलाभादिति सूत्रकारः शिक्ष्यते (वार्तिककृता)। उक्तामुक्तदुरुक्तचिन्तनात्मकं हि वार्तिकम्। अकारहकारयोरिति। उभयोः कण्ठस्थानविवृतप्रयत्नसाम्यात्सावण्र्यं प्राप्तम्। अकारस्य कवर्गेण तु न सावण्र्यप्रसक्तिः, कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात्। विसर्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णसंज्ञा, प्रयोजनाऽभावात्। ततश्च अकारस्य हकारेण सावण्र्यं परिशिष्टत इति भावः। इकारशकारयोरिति। तालुस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम्। इकारस्य चवर्गेण यकारेण च न सावण्र्यप्रसक्तिः,इकारस्य विवृतत्वात् , चवर्गस्य स्पृष्टत्वात्, यकारस्य ईषत्स्पृष्टत्वाच्च। अत इकारस्य शकारेण सावण्र्यं परिशिष्यत इति भावः। ऋकारषकारयोरिति। मूर्धस्थानविवृतयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम्। ऋकारस्य टवर्गेण रेफेण च न सावण्र्यप्रसक्तिः ऋकारस्य विवृतत्वात्, टवर्गस्य स्पृष्टत्वात् , रेफस्यैइषत्स्पृष्त्वाच्च। अत ऋकारषकारयोः सावण्र्यं परिशिष्टत इति भावः। लृकारसकारयोरिति। दन्तस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम्। लृकारस्य तवर्गेण लकारेण च न सावण्र्यप्रसक्तिः, लृकारस्य विवृतत्वात्, तवर्गस्य स्पृष्टत्वात्, लकारस्य ईषत्सपृष्टत्वाच्च। अतः लृकारस्य सकारेण सावण्र्यं परिशिष्यते।