यद्यविशेषेणैकशब्दस्य बहुव्रीहिवद्भावो विधीयते, तदैकमित्यत्रापि स्यादिति मन्यमानोऽतिप्रसङ्गं परिजिहीर्षुराह--"एकमित्येतद्()द्विरुक्तं बहुव्रीहिवद्भावो भवति" इति। कथं पुनर्द्विरुक्तमित्येव विशेषो लभ्यते,
यावता नायं सूत्रोपात्तः? एवं मन्यते--वीप्साऽनुवत्र्तते, ["वीप्सामनुवत्र्तते"--प्रांउ।पाठः] वीप्सायाञ्च पूर्वमेव द्विर्वचनं विहितम्()। न च तदेकशब्दस्यानेन बहुव्रीहिवद्भावेन बाध्यते; अन्यथा हि "एकैकस्य प्राचाम्()"
८।२।८६ इति निर्देशो नोपपद्येत। तस्माद्वीप्साग्रहणानुवृत्तेर्द्विरुक्तस्यैकशब्दस्यायं बहुव्रीहवद्भावो विज्ञायत इति। किं पुनर्बहुव्रीहिवद्भावे प्रयोजनमित्याह--"बहुव्रीहिवत्त्वे" इत्यादि। यद्यपि सुब्लृक्पुंवद्भावौ बहुव्रीहावित्येवं नोच्येते, तथाप्येतौ तत्र दृष्टावित्यस्मिन्नतिदेशे तयोः प्रवृत्तिः प्रयोजनम्()। "एकैकम्()" इति। वीप्सायां द्विर्वचने कृते यता चित्रगुरित्यादौ बहुव्रीहौ "सुपो धातुप्रातिपदिकयोः"
२।४।७१ इति सुब्लुग्भवति, तथेहाप्यतिदेशेन।
अतिदेशेनैव समासे प्रातिपदिकत्वात्? सुः, "अतोऽम्()"
७।१।२४ इत्यम्भावः। "एकैकया" इति। पूर्ववद्विभक्देर्लुक्(), "स्त्रियाः पुंक्त्()"
६।३।३३ इत्यादिना यथा दर्शनीयभार्य इत्यत्र बहुव्रीहौ पुंवद्बावो भवति, तथेहाप्यतिदेशेन, तृतीयैकवचनम्(), "आङि चापः"
७।३।१०५ इत्येत्तवम्(), अयादेशः। ननु चासत्यपि पुंवद्भावे "वृद्धिरेचि" (६।१।
८८) इति वृद्धावपि कृतायामेतत्? सिध्यत्येव? यद्यप्येतत्? सिध्यति,
तथापि गतगतेत्येतत्? "आबाधे च"
८।१।१० इति द्विर्वचने कृते न सिध्यति। तस्मादुत्तरसूत्रे पुंवद्भावो बहुव्रीहिवदित्यस्यातिदेशस्यैव प्रयोजनत्वेनोच्यते। एकैकयेत्येतत्तु "एकमित्येष नपुंसकलिङ्गेन निर्देशोऽन्त्रम्()" इत्येतत्सूचयितुमुक्तम्()। अतन्त्रत्वं तु सूत्रे लिङ्गनिर्देशस्य "अर्धं नपुंसकम्()"
२।२।२ इत्यत्र नपुंसकग्रहणेन ज्ञापितम्()। यदि सौत्रो निर्देशस्तन्त्रमभविष्यत्(), अर्धमित्यत्र तत एव निर्देशाल्लिङ्गविशेषे सिद्धे नपुंसकमिति नावक्ष्यत्()।
अथ पूर्वपदप्रकृतिस्वरत्वमपि प्रयोजनं कस्मान्नोच्येत? विशेषाभावा। परस्य निघाते कृते पूर्वपदप्रकृतिस्वर एव भविष्यति।
यदि तर्हि बहुव्रीहौ यद्()वृष्टं तदतिदिश्यते,
सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्तानामप्यतिदेशः प्राप्नोति? इत्यत आह--"सर्वनामसंज्ञा" इत्यादि।
कथं पुनरेते सर्वनामसंज्ञाप्रतिषेधादयः समासाधिकारे विहिते बहुव्रीहौ शक्या विज्ञातुम्()? उच्यते;
सर्वनामसंज्ञाप्रतिषेधस्तावत्? "बहुव्रीहौ"
१।१।२७ इत्यनुवत्र्तमाने पुनर्बहुव्रीहि
१।१।२८ ग्रहणाच्च शक्यते विज्ञातुम्()।
तस्य ह्रतत्? प्रयोजनमुक्तम्()--बहुव्रीहेरेव यो बहुव्रीहिस्तत्र प्रतिषेधो यथा स्यात्(), बहुव्रीहिवद्भावेन यो बहुव्रीहिस्ततर मा भूदिति।
एवञ्चार्थात्? समासाधिकारविहित एव बहुव्रीहौ प्रतिषेधो विज्ञायते। न हि ततोऽन्यो बहुव्रीहिरेव बहुव्रीहीर्भवति; "एकैकस्मै" इत्यादेर्बहुव्रीहिवद्भावेन बहुव्रीहिवत्त्वात्()। "नञ्सुभ्यम्()"
६।२।१७१ इत्यनेनापि "बहुव्रीहाविदमेतत्तद्भ्यः
६।२।१६१ इत्यतो बहुव्रीहिग्रहणेऽनुवत्र्तमाने नञ्सुम्यां परस्य बहुव्रीहावन्तोदात्तत्वं विधीयते, न तु तयोरपि;
यस्मात्? सुनञादिह निमित्तत्वेनोपात्तौ। न च निमित्तयोः कार्यित्वं युक्तम्()। यथीक्तम्()---"नेमौ ["हयवरट्()" (मा।सू।
५) इत्येतस्मिन्? सूत्रे भाष्यकारेण] रहौ कार्यिणौ,
किं तर्हि? न#इमित्तमिमौ द्विर्वचनस्य" इति।
तस्माद्यत्र बहुव्रीहौ नञ्सूभां सुनञोरेव परभूतत्वात्? "आबाधे च"
८।१।१० इति द्विर्वचनम्(), बहुव्रीहिवद्भावश्च। अथ वा स्वरविधौ "समासस्य"
६।१।२१७ इत्यतः समातग्रहणमनुवत्र्तते, तेन च बहुव्रीहि विशेषयिष्यामः--समासो यो बहुव्रीहिरिति। ननु च नन, सुस्वित्यतावपि समासावेव, अस्ति ह्रनयोरेव बहुव्रीहिवद्भावेनोत्पादिता समाससंज्ञा,
ततश्च विशिष्यमाणऽपि समासग्रहणे न बहुव्रीहौ स्वरः प्राप्नोतीत्येव? नैव दोषः; विशिष्यते हि समासग्रहणेन बहुव्रीहिः, न कश्चिदसमासो बहुव्रीहिरस्ति, तत्र विशेषणसामथ्र्यावतिदेशद्बारेम यस्य समाससंज्ञा तस्य न भवति। स च समासाधिकारे विहितो बहुव्रीहिरिति विज्ञायते। ननु च समासग्रहणेन बहुव्रीहौ विशिष्यमाणे विशेषणसामथ्र्याद्विशिष्टस्य बहुव्रीहेरिवं ग्रहणमित्येतादन्मात्रं निश्चीयते,
तत्र तु विशिष्टे बहुव्रीहौ सन्देह एव? उच्यते; भवति व्याख्यानतो विशेषप्रतिपत्तिः, न हि सन्देहादलक्षण(व्या।पा।७५)मित्यदोषः, समासान्तविधावपि "समासाच्च तद्विषयात्()"
५।३।१०६ इत्यतः समासग्रहणमनुवत्र्तते। तत्र समासाधिकारादेव समासान्तत्वे वक्ष्यमाणानां प्रत्ययानां सिद्धे समासग्रहणानुव#ऋत्तिविशिष्टे समासे समासान्तत्वं यथा स्वादित्येवमर्थं विज्ञायते। स पुनर्विशिष्टः समासो यः समासाधिकारे विहितः स एव व्याख्यानाद्वेदितव्यः। अथ ननेत्यत्र "नलोपो नञः"
६।३।७२ इति नलोपः कस्मान्न भवति,
अस्ति तस्यापि बहुव्रीहौ दर्शनम्()? नैष दीषः; "नलोपो नञः" इत्यत्र हि उत्तरवदाधिकारोऽनुवत्र्तते--उत्तरपदे नलोपो विधीयते।
नञ्? च कार्यित्वेनोपात्त:, कार्यिणश्चेह निमित्तभावो नोपपद्यत इति नञोऽन्यस्मिन्नुत्तरपदे लोपेन भवितव्यम्(), यथा--अब्राआहृण इति, न तु तस्मिन्नेवेति कुतो नकारलोपस्य प्रसङ्गः()॥