यावत् यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति। यावद् भुङ्क्ते। यथा भुङ्क्ते। यावदधीते। यथा अधीते। देवदत्तः पचति यावत्। देवदत्तः पचति यथा। परेण अपि योगे भवति प्रतिषेधः।
किमर्थं पुनरिदमारभ्यते? न "यद्()वृत्तान्नित्यम्()"
८।१।६६ इत्येव सिद्धमिति यश्चोदयेत्(), तं प्रति--"देवदत्तः पचति यावत्()", "देवदत्तः पचति यथा"--इत्येतदुदाहरणद्वयमुपन्यस्तम्()।
एषोऽभिप्रायः--यद्()वृत्तादिति पञ्चमीनिर्देशात्? "तस्मादित्युत्तरस्य"
१।१।६६ इति यत्रैव यावद्यथाभ्यां परं तिङन्तं तत्रैव प्रतिषेधः स्यात्()। यत्र तु ताभ्यां पूर्वं तत्र न स्यात्()।
इह तु तृतीयनिर्देशात्? तत्रापि भवतीति॥