तिङन्तं पदम् अतिङन्तात् पदात् परम् अनुदात्तं भवति। देवदत्तः पचति। यज्ञदत्तः पचति। तङिति किम्? नीलम् उत्पलम्। शुक्लं वस्त्रम्। अतिङः इति किम्? भवति पचति।
"नीलमुत्पलम्()" इति।
उत्पलमित्येतत्? "नव्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्याद्युदात्तं भवति। "भवति पचति" इति। पचतिक्रिया भवतीत्ययमस्यार्थः। पचतिशब्दे शप्तिपावनुदात्तौ, अकारो धातुस्वरेणोदात्तः, "उदात्तादनुदात्तस्य स्वरितः"
८।४।६५ इति शबकारः स्वरितः। ननु च समासवाक्ये निघातादय उच्यन्ते, इदञ्च वाक्यमेव न भवति,
तत्? किमेतन्निवृत्त्यर्थेनातिङग्रहणेन? किं पुनः कारणमेतद्वाक्यं न भवति? अख्यातं साव्ययकारकविशेषणं वाक्यम्()" इत्यत्र वाक्यलक्षण एकत्वस्य विवक्षितत्वात्(),
इह चाख्यातस्य द्वित्वात्()? नैष दोधः; अत्राप्याख्यातं यदकारकं तद्विवक्षितम्()। तच्चास्मिन्नेकमेव भवतिशब्दः, पचतीत्येतत्तु कारकम्()। तथा हि भाष्ये उक्तम्()--"पचत्यादयः क्रियाः ["क्रियाः भवन्ति" नास्ति का। मुद्रिते] भवन्ति, क्रियायाः कर्त्र्यो भवन्ति" इति।
यदपीदमुक्तम्()--"एकतिङ्? पदसमूहो वाक्यम्()" इति,
अत्रापि प्रधानं यत्? तिङ्? तदधिकृत्यैकतिङित्युक्तम्()। अत्र चैकमेव तिङन्तं प्रधानम्()। यद्येतत्(),
किं तर्हि अत्र तिङन्तं तत्()? भवतीति।
पचतीत्येतत्? पुनः साधनत्वादप्रधानम्()॥