सूत्रम्
रुग्रिकौ च लुकि॥ ७।४।९१
काशिका-वृत्तिः
रुग्रिकौ च लुकि ७।४।९१
यङ्लुकि ऋदुपधस्य अङ्गस्य यो ऽभ्यासस् तस्य रुग्रिकौ आगमौ भवतः, चकाराद् रीक् च। नर्नर्ति, नरिनर्ति, नरीनर्ति। वर्वर्ति, वरिवर्ति, वरीवर्ति। उकारः उच्चारणार्थः। मर्मृज्यमानास इत्युपसङ्ख्यानम्। मर्मृज्यते। मर्मृज्यमानासः।
न्यासः
रुग्रिकौ च लुकि। , ७।४।९१
तत्त्व-बोधिनी
रुग्रिकौ च ४११, ७।४।९१
रुग्रिकौ च। चकारेण रीगृदुपधस्य" इत्यतो रीगनुकृष्यते। रुक उकार उच्चारणार्थः।