सूत्रम्
भियो हेतुभये षुक्॥ ७।३।४०
काशिका-वृत्तिः
भियो हेतुभये षुक् ७।३।४०
भी इत्येतस्य हेतुभये ऽर्थे षुगागमो भवति णौ परतः। मुण्डो भीषयते। जटिलो भीषयते। अत्र अपि भी ई इति ईकारप्रश्लेषः कृतात्वस्य पुग्निवृत्त्यर्थः। मुण्डो भापयते इत्येवं हि तत्र भवति। हेतुभये इति किम्? कुञ्चिकया एनं भाययति। न अत्र हेतुः प्रयोजको भयकारणम्, किं तर्हि, कुञ्चिका।
न्यासः
भियो हेतुभये षुक्?। , ७।३।४०
हेतुः स्वतन्त्रस्य कर्तुः प्रयोजकः। विभेत्यस्मादिति भयः, हेतुश्चासौ भयश्चेति हेतुभयः,
तस्मिन्? हेतुभये। "ञिभी भये" (धा।पा।१०८४) इत्यस्य वृद्धौ प्राप्तायां "बिभेतेर्हेतुभये"
६।१।५५ इत्यात्त्वे च प्राप्ते पक्षे णौ धुग्विधीयते। "मुण्डो भीषयते" इति। "भीस्म्योर्हेतुभये"
१।३।७८ इत्यात्मनेपदम्()।
अथात्त्वे कृते मुण्डो भापयत इत्यत्र कस्मान्न भवति? इत्याह--"अत्रापि" इत्यादि॥
बाल-मनोरमा
भियो हेतुभये षुक् ४२३, ७।३।४०
भियो हेतुभये षुक्। भी ई ति। द्वयोः सवर्णदीर्घे भीशब्दात् षष्ठीति भावः। इदं च स्थानिवत्सूत्रे भाष्ये स्पष्टम्। ईकारप्रश्लेषलब्धमाह-- ईकारान्तस्येति। तेन आत्त्वपक्षे न षुगिति फलितम्। णाविति। "अर्तिह्यी" त्यतस्तदनुवृत्तेरिति भावः।
तत्त्व-बोधिनी
भियो हेतुभये षुक् ३७१, ७।३।४०
ईकारान्तस्येति। तेन आत्वपक्षे भाययते इत्येव, न त्वत्र षुगित्यर्थः। करणादेव हीति। तथा च करणात्स्मये आत्वाऽभावेन पुद्गुर्लभ इति भावः। प्रयोज्यकत्र्रीति। यद्यपि प्रथमणिजर्थं प्रति मनुष्यवागेव प्रयोजिका, अतएव आत्वं प्रवृत्तं तथापि द्वितीयणिजर्थाभिप्रायेणेदमुक्तमिति मनोरमायाम्। केचित्तु प्रयोज्यस्य कत्र्री। प्रयोजककत्र्रीति यावदिति प्रथमणिजभिप्रायेणैवेदं सुयोजमित्याहुः। ण्यन्ताण्णाविति। राजा विस्मयते, तंमनुष्यवाग्विस्मापयते, तया सिंहो विस्मापयन्नित्यर्थः। एवं च प्रथमणिचि हेतुर्मनुष्यवागिति आत्वपुकावुपपन्नौ।