अकारान्तातङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्य इयित्ययम् आदेशो भवति, पचेत्, पचेताम्, पचेयुः इति। अत्र उस्यपदान्तात्
६।१।९३ इति पररूपं बाधितम्।
अतः इति किम्? चिनुयात्। सुनुयात्।
तपरकरणम् किम्? यायात्। सार्वधातुक इत्येव, चिकीर्ष्यात्। ननु च अतो लोपः
६।४।४८ इत्यनेन अत्र भवितव्यम्, पचेतित्यत्र अपि हि तर्हि अतो दीर्घो यञि
७।३।१०१ इति दीर्घत्वेन भवितव्यम्, तदनेन अवश्यं विध्यन्तरं बाधितव्यम्,
स यथैव दीर्घस्य बाधकः एवम् अतो लोपस्य अपि बाधकः स्यात्? स्यादेतदेवं यदि दीर्घः सार्वधातुके विधीयते। अथ तु तिङि विधीयते, तदा येन नाप्राप्तिन्यायेन दीर्घस्यैव बाधकः स्यान् न पुनरतो लोपस्य। येयः इत्यविभक्तिको निर्देशः। यः इति वा षष्ठीनिर्देशे यलोपस्य असिद्धत्वमनाश्रित्य आद्गुणः कृतः, सौत्रत्वान् निर्देशस्य इति। केचितत्र अतो यासियः इति सूत्रं पथन्ति। तेषां सकारान्तः स्थानी, षष्ठीसमासश्च।
सार्वधातुकं यत्? प्रकृतं तदर्थादिह विभक्तिविपरिणामेन षष्ठ()न्तं प्रतिपद्यते। अत एवाह--"अकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य" इति। "पचेत" ["पठेत्()"--इति प्राचीनमुद्रितः पाठः] इति। इयादेशे कृतेऽकारेण सह "आद्गुणः"
६।१।८४, "लोपो व्योर्वलि"
६।१।६४ इति यकारलोपः। "चिनुयात्()" इति। "स्वादिभ्यः श्नुः"
३।१।७३ "यायात्()" इति। अदादित्वाच्छपो लुक्()। "चिकीष्र्यात्()" इति। सनन्तादाशिषि लिङ्()।
"ननु चातो लोपेनात्र भवितव्यम्()" इति। नार्थोऽनुवृत्तेन सार्वदातुकग्रहणेनेत्यभिप्रायः। "पचेदित्यत्रापि" इत्यादि। यद्यपि पचेदितोदमस्योदाहरणमभिमतम्(), तत्रापि "अतो दीर्गो यञि"
७।२।१०१ इति दीर्घत्वेन भवितव्यमिति, ततश्च सर्वविषयस्य विध्यन्तरेणावष्टब्धत्वादनवकाशोऽयमियादेशः। तस्मादवश्यमनेन विध्यन्तरं बाधितव्यम्()। एवञ्च यथा दीर्घस्यायं बाधकः, तथाऽतो लोपस्यापि स्यात्()।
तस्मात्? सार्वधातुकग्रहणमनुवत्र्तयितन्यमिति भावः। "स्यादेतदेवम्()" इत्यादि। यदि च दीर्घत्वं "तुरुस्तुन्नम्यमः सार्वधातुके"
७।३।९५ इत्यतः सार्वधातुकग्रहणमनुवत्त्यं विधीयते, ततश्च स्यादेतदेवं यदुक्तवानसि; इयादेशस्यानवकाशत्वात्()। अथ "भूसुवोस्तिङि"
७।३।८८ इति तिङ्ग्रहणमनुवर्त्त्य विधीयते,
तदा तिङ्मात्रमभावि दीर्घत्वमिति लिङ्? विधीयमान इत्यादेशे नाप्राप्ते तस्मिन्नयमारभ्यते, ततश्च "येन नाप्राप्ति" (व्या।प।४९) न्यायेन तस्यैव बाधको भवति, न त्वतो लोपस्य। इयोऽतो लोपे प्राप्ते चाप्राप्तेऽयमारभ्यते। आर्धधातुके हि प्राप्ते सार्वधातुके त्वप्राप्ते।
अथ येय इति कोऽयं निर्द्देशः,
अत्र हि "या" इत्येष यः स्थानी तत्र षष्ठ()आं कृतायामतो या अस्? इय इति स्थिते "आतो लोपः"
६।४।४८ इति "आतः "धातोः"
६।४।१४० इति योगविभागाद्वा आकारलोपे कृते "ससजुषोः"
८।२।६६ इति षष्ठीसकारस्य रुत्वे कृते त्सय "भोभयोअघोअपूर्वस्य योऽशि"
८।३।१७ इति यकारः। तस्यापि "लोपः शाकस्यस्य"
८।३।१९ इति लोपे च "य इयः" इति निर्द्देशेन भवितव्यमिति, न तु यत इति। न ह्रत्राद्गुणो भवितुमुत्सहते; "पूर्वत्रासिद्धम्" (८।२।
१) इति यलोपस्यासिद्धत्वात्()? इत्यत आह--"येय इत्यविभक्तिकोऽयं निर्द्देशः" इति।
येय इत्यस्मिन्? स्थान्यादेशसमुदयेन "या" इति। योऽयं निर्द्देशः सोऽविभक्तिकः; "सुपां सुलुक्()"
७।१।३९ इति विभक्तेर्लुप्तत्वात्()। अङ्गीकृत्य च सविभक्तिकत्वं निर्देशस्य परीहारान्तरमाह--"यः" इति। "वा" इत्यादि।
कथं पुन लोपस्यासिद्धत्वं शक्यमनाश्रयितुम्()? इत्यत्राह--"सौत्रोऽयं निर्देशः" इति। इतिकरणो हेतौ।
यस्मात्? "सर्वे विधयश्छन्दसि विकल्प्यन्ते" (पु।प।वु।
५६) इति "छन्दोवत्? सूत्राणि भवन्ति" (म।भा) इति, तस्मात्(), सौत्रत्वादस्य निर्द्देशस्यासिद्धत्वमनाश्रित्य "आद्गुणः"
६।१।८४ कृतः। इत्यादेशेऽकार उच्चारणार्थः॥
तथा च भव या त् इति स्थिते--अतो येयः। "या" इति लुप्तषष्ठीकं पदम्। "अत इति" पञ्चमी। परस्येत्यध्याहार्यम्। "इय" इत्यत्राऽकार उच्चारणार्थः। "रुदादिभ्य" इत्यस्मात् "सार्वधातुक" इत्यनुवृत्तमवयवषष्ठ()आ विपरिणम्यते। तदाह-- अतः परस्येत्यादिना। भव इय् त् इति स्थितम्। गुण इति। "आद्गुण इत्येनेने"ति शेषः। भवेय् त् इति स्थितम्। यलोप इति। "लोपो व्योरित्यनेने"ति शेषः। भवेदिति।यलोपात्प्राग्घल्ङ्यादिलोपः संयोगान्तलोपश्च न शङ्क्यः, अन्तरङ्गत्वेन यलोपस्य पूर्वं प्रवृत्तेः, संयोगान्तलोपस्य त्रैपादिकत्वेनाऽसिद्धत्वाच्चेति भावः। सार्वधातुके किमिति। "रुदादिभ्य" इत्यतः सार्वधातुक इत्यनुवृत्तिलभ्यं। सार्वधातुकावयवस्येति किमर्थमित्यर्थः। भूयादित्यादावाशीर्लिङि आद्र्धधातुकेऽतः परत्वाऽभावादेव इयादेशाऽभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिव्र्यर्थेत्याशयः। चिकीष्र्यादिति। कृञ्धातोः सन्नन्तादाशीर्लिङि तिबादौ चिकीर्ष-- यादिति स्थिते "अतो लोप" इत्यकारलोपे चिकीष्र्यादिति रूपम्। तत्र "अतो येय" इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्ष--यादिति स्थिते "अतो येय" इति इयादेशे आद्गुणे यलोपे चिकीर्षेदिति स्यात्। सार्वधातुकग्रहणानुवृत्तो तु न दोषः, आशीर्लिङादेशस्य तिङो लिङाशिषीत्याद्र्धधातुकताया वक्ष्यमाणत्वादिति भावः। ननु आशिषि लिङि चिकीर्ष---यादिति स्थिते नित्यत्()वादतो लोप इत्यकारलोपे सति अतः परत्वाऽभावादेव "आतो येय" इत्यस्याऽप्रवृत्तेस्तत्र सार्वधातुकग्रहणानुवृत्तिव्र्यर्थैवेत्यत आह--मध्येऽपवादन्यायेन ह्रतो लोप एव बाध्येनेति। षष्ठस्य चतुर्थपादे अतो लोप इति सूत्रं, सप्तमस्य द्वितीयपादे अतो येय इति सूत्रं, सप्तमस्य चतुर्थपादे तु अतो दीर्घो यञीति सूत्रमिति स्थितिः। तत्र आशीर्लिङ आद्र्धधातुके चिकीर्ष-- यादित्यत्राऽल्लोपप्राप्त्या, विधिलिङि तु भव यादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति, "मद्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरा"निति न्यायेनातो लोप एव बाधमर्हति न तु अतो दीर्घ इत्यर्थः। एवं चाद्र्धधातुके भव--यादिति स्थिते इयादेशं परत्वाद्बाधित्वा "अतो दीर्घो यञी"ति यञादौ सार्वधातुके परे अतो विधीयमानो दीर्घः स्यात्। ततश्च अतः परत्वाऽभावादियादेशो न स्यादित्यव्याप्तिः स्यादित्यर्थः। न च इयादेशस्य निरवकाशत्वाद्दीर्घबाधकत्वं शङ्क्यम्। चिकीष्र्यादित्याद्र्धधातुके दीर्घप्राप्त्ययोगे इयादेशस्य सावकाशत्वादिति भावः। भवेतामिति। तसस्तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या इत्यस्य इयादेशे आद्गुणे यलोपः।