पूङश्च क्त्वानिष्ठयोर् वा इडागमो भवति। पूर्वा, पवित्वा। सोमो ऽतिपूतः, सोमो ऽतिपवितः। पूतवान्, पवितवान्। श्र्युकः किति
७।२।११ इति प्रतिषेधे प्राप्ते विकल्पो विधीयते।
उगन्तत्वात्? "श्रयुकः किति"
७।२।११ इतीट्प्रतीषेधे प्राप्ते कत्वानिष्ठयोः पक्षे प्राप्त्यर्थं वचनम्()। "पवित्वा, पक्तिः, पवितवान्()" इति। "पूङः क्त्वा च"
१।२।२२ इति कित्त्वप्रतिषेधाद्गुणो भवत्येव। "पूङः" इति सानुबन्धकस्य ग्रहणं पूञो निवृत्त्यर्थम्()॥।
पूङश्च। क्त्वानिष्ठयोरिति। "क्लिशः क्त्वनिष्ठयो"रित्यतस्तदनुवृत्तेरिति भावः। इड्वेति। "स्वरतिसूती"त्यतो वाग्रहणस्य , "इण्निष्ठाया"मित्यत इडित्यस्य चाऽनुवृत्तेरिति भावः। "श्र्युकः" इति निषेधे प्राप्ते विकल्पोऽयम्।