पूर्वम्: ६।४।५२
अनन्तरम्: ६।४।५४
सूत्रम्
जनिता मन्त्रे॥
६।४।५३
काशिका-वृत्तिः
जनिता मन्त्रे
६।४।५३
जनिता इति मन्त्रविषये इडादौ णिलोपो निपात्यते। यो नः पिता जनिता।
मन्त्रे इति किम्?
जनयिता।
न्यासः
जनिता मन्त्रे।
, ६।४।५३
"इङादौ णिलोपो निपात्यते" इति। "जनिता" इति तृजन्तम्(), तत्र "अनिटि" इति प्रतिषेधादिडादौ न न प्राप्नौति, अतो निपात्यते। ह्यसवत्वन्तु "जनीजृ()ष्क्नसुरञ्जोऽमन्ताश्च" (ग।सू।धा।पा।
८१७) इति मित्संज्ञकत्वात्?
"मितां ह्यस्वः"
६।४।९२
इत्यनेनैव सिद्धम्()॥