आर्धधातुके इत्यधिकारः। न ल्यपि
६।४।६९ इति प्रागेतस्माद् यदित ऊर्ध्वम् अनुक्रमिष्यामः आर्धह्दातुके इत्येवं तद् वेदितव्यम्। वक्ष्यति अतो लोपः
६।४।४८। चिकिर्षता। जिहीर्षिता।
आर्धधातुके इति किम्? भवति। भवतः। अदिप्रभृतिभ्यः शपो लुग्वचनं
२।४।७२ प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यातित्येतन् न ज्ञापकं शपो लोपाभावस्य। यस्य हलः
६।४।४९। बेभिदिता। बेभिदितुम्। बेभिदितव्यम्।
आर्धधातुके इति किम्? बेभिद्यते। णेरनिटि
६।४।५१। कारणा। हारणा।
आर्धधातुके इति किम्? कारयति। हारयति। आतो लोप इटि च
६।४।६४। ययतुः। ययुः। ववतुः। ववुः।
आर्धधातुके इति किम्? यान्ति। वान्ति। घुमास्थागापाजहातिसां हलि
६।४।६६। दीयते। धीयते।
आर्धधातुके इति किम्? अदाताम्। अधाताम्। वा ऽन्यस्य संयोगादेः
६।४।६८। स्नेयात्, स्नायात्।
आर्धधातुके इति किम्? स्नायात्। आशीर्लिङो ऽन्यत्र न भवति। स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशे ऽज्झनग्रहदृशां वा चिण्वदिट् च
६।४।६२। कारिषीष्ट। हारिषीष्ट।
आर्धधातुके इति किम्? क्रियेत। ह्रियेत यगन्तस्य अजन्तत्वाच् चिण्वद्भावे सति वृद्धिः स्यात्, ततश्च युक् प्रसज्येत। अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम्। आल्लोप ईत्वम् एत्वम् च चिण्वद्भवश्च सीयुटि।
"चिकीर्षिता" इति।
सन्नन्तात्? तुच्()। "भवति, भवतः" इति।
"आर्धधातुके" इत्यधिकारात्? सार्वधातुकेऽत्र शपो लोपो न भवति। यद्यत्र शपो लोपो मा भूदित्येवमर्थ आर्धधातुकाधिकारः क्रियते, तर्हि न कर्तव्यः, ज्ञापकादेव शपो लोपो न भविष्यति,
आचार्यप्रवृत्तिज्र्ञापयति--"नानेन शपो लोपो भवति" इति यदयम्? "अदिप्रभृतिभ्यः शपः" (२।४।
७२) इति शपो लुकं शस्ति? इत्यत आह--"अदिप्रभृतिभ्यः" इत्यादि। इतिकरणो हेतौ। असति हि प्रयोजने ज्ञापकं भवति। अस्ति चादिप्रभृतिभ्यः शपो लुग्वचनस्य प्रयोजनम्()।
किं तत्()? "वित्तः" इत्यत्र गुणो मा भूत्()। यदि "वित्तः" इत्यत्र लोपः स्यात्(), प्रत्ययलक्षणेन "पुगन्तलघूपधस्य"
७।३।८६ इति गुणः स्यात्()। "मृष्टः" इत्यत्र "मृजेर्वृद्धिः"
७।२।११४ लुकि तु सति न भवति, "न लुमताङ्गस्य"
१।१।६२ इति प्रत्ययलक्षणप्रतिषेधात्()। तस्माददिप्रभृतिभ्यः शपो लुग्वचनं प्रत्ययलक्षमप्रतिषेधार्थं स्यादिति न ज्ञापकं शपो लोपाभावस्य।
"बेभिदिता" इति। यङो लोपः। "बेभिद्यते" इत्यत्र शपि सार्वधातुके न भवति।
"कारणा" इति। "ण्यासश्रन्थो युच्()"
३।३।१०७। "कारयति" इति शपि सार्वधातुके न भवति।
"पपतुः, पपुः"। "ववतुः" ववुः" इति। अतुसुसौ। पातेर्वातेश्च "आतो लोप इटि च"
६।४।६४ इत्यकारलोपः।
"दीयते धीयते" इति। आर्धधातुके यकीत्त्वम्()।
"अदाताम्? अधाताम्()" इति। लुङ, "तस्थस्थ"
३।४।१०१ इति तसस्ताम्(); "गातिस्था"
२।४।७७ इत्यादिना सिचो लुक्()। "स्नायात्(), स्नेयात्()" इति। स्नातेराशिषि लिङ, तस्य "लिङाशिषि"
३।४।११६ इत्यार्धधातुकसंज्ञा, यासुट्(), "स्कोः संयोगाद्योः"
८।२।२९ इत्यादिना सकारलोपः। "आशीर्लिङोऽक्यत्र न भवति" इति।
आशीर्लिङोऽन्यद्? विष्यादिलिङः, तत्र न भवति; तस्य सार्वधातुकसंज्ञकत्वात्()। तेन तत्र नित्यं "स्नायात्()" इत्येवं भवति। अत्र "लिङः सलोपोऽनन्त्यस्य"
७।२।७९ इति सकारलोपः।
"कारिषीष्ट" इति। आशिषि लिङः, सीयुट्(), "भावकर्मणोः"
१।३।१३ इत्यात्मनेपदम्(),
"सुट्? तिथोः" (३।४।
१०७) इति सुट्? चिण्वद्भावाद्वृद्धिः। "क्रियेत" इति। विष्यादिलिङः। पूर्ववदात्मनेपदम्(), सार्वधातुके यक्(), सीयुडीकरेण सह "आद्गुणः"
६।१।८४ "लोपो व्योर्वलि"
६।१।६४ इति यकारलोपः, "रिङशयग्लिङक्षु"
७।४।२८ इति रिङादेशः।
अत्र चिण्वद्भादेन यो दोषः स्यात्? तं "यगन्तस्य" इत्यादिना दर्शयति।
यद्यत्र चिण्वद्भावात्? वृद्धिः स्यात्(),
ततश्च "आतो युक्? चिण्कृतोः" (७।३।
३३) इति युक्? प्रसज्येत।
"अतो लोपो यलोपश्च" इत्यादि। आर्धधातुकाधिकारप्रयोजनसंग्रहश्लोकः। गतार्थः।
नन्वत्र "भ्रस्जो रोपधयो रमन्यतरस्याम्()"
६।४।४७ इति रम्(), "दीङो युडचि क्ङिति"
६।४।६३ इति युडार्धधातुकाधिकार एव विधास्यते,
तत्? कस्मात्? तौ तत्र प्रयोजनत्वेन नोपात्तौ? एवं मन्यते--भ्रस्जो रम्भाव आर्धधातुकाधिकारं न प्रयोजयति, स, तु तुदादौ पठ()ते, ततः सार्वधातुके परतः शेन भवितव्यम्()।
शे च सति पूर्वविप्रतिषेधाद्? ग्रहिजयादि
६।१।१६ सूत्रेण सम्प्रसारणेन भवितव्यम्()। युडपि नैव प्रयोजयति,
दीङो हि दिवादित्वात्? सार्वधातुके श्यना भवितव्यम्()। ततोऽजादित्वाभावादेव युडागमस्याभाव एव। "आर्धधातुके" इति यदार्धधातुकसामान्यं विवक्ष्यते,
तदा सामान्ये पौर्वापर्यासम्भवात्? विषयसप्तमीयम्()। यदार्धधातुकव्यक्तिस्तदा परसप्तमी। प्रतिपादितञ्चास्मभिः "न धातुलोपः"
१।१।४ इत्यत्र ज्ञापकद्वारेण परसप्तमीत्वं विषयसप्तमीत्वञ्चास्येति॥