सूत्रम्
इनण्यनपत्ये॥ ६।४।१६४
काशिका-वृत्तिः
इनण्यनपत्ये ६।४।१६४
इन्नन्तमनपत्यार्थे अणि परतः प्रकृत्या भवति। साङ्कूटिनम्। सांराविणम्। सांमार्जिनम्। अभिविधौ भाव इनुण्
३।३।४४, अणिनुणः
५।४।१५ इत्यण्। स्रग्विण इदम् स्राग्विणम्।
अणि इति किम्? दण्डिनां समूहो दाण्डम्। अनुदात्तादेरञ्
४।२।४३ इति अञ्प्रत्ययः।
अनपत्ये इति किम्? मेधाविनो ऽपत्यं मैधावः।
न्यासः
इनण्यनपत्ये। , ६।४।१६४
"साङकूटिनम्(), सांराविणम्(), साम्मार्जिनम्()" इति। "कूट दाहे" (धा।पा।१८९०), [परितापे (परिदाहे)--धा।पा।] "रु शब्दे" (धा।पा।१०३४), "मृजू शुद्धौ" (धा।पा।१०६६) "अभिविधौ भावे इनुण्()"
३।३।४४, "मृजेर्वृद्धिः"
७।२।११४ सांकूटिन्(), सांराविन्(), सांमार्जिन्()--इति स्थिते "अणिनुणः"
५।४।१५ इति स्वर्थेऽण्()। "मैधावः" इति। "अस्माया"
५।२।१२० इत्यादिना विनिः,
तदन्तात्? प्राग्दीव्यतोऽणपत्यार्थे॥
बाल-मनोरमा
इनण्यनपत्ये १२२७, ६।४।१६४
इनण्यनपत्ये। इन्-अमीति छेदः प्रकृत्येति। "प्रकृत्यैका"जित्यतस्तदनुवृत्तेरिति भावः। टिलोपो नेति। अञि तु प्रकृतिभावाऽप्रवृत्तेष्टिलोपः स्यादिति भावः। यौवनमिति। "कनिन्युवृषितक्षी"त्यौणादिककनिन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। ततः स्त्रियां "यूनस्ति"रिति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सतिशिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादञि प्राप्ते भिक्षादित्वादणि कृते सति "भस्याऽढे" इति पुंवत्त्वे ति प्रत्ययस्य निवृत्तौ "अन्" इति प्रकृतिभावाट्टिलोपाऽभावे "यौवन"मिति रूपम्। अञि तु प्रकृतिभावस्याऽप्रवृत्तेष्टिलोपः स्यादिति भावः। वस्तुतस्तु "भस्याऽढे तद्धिते" इत्यस्य अढे तद्धिते विवक्षिते सति ततः प्रागेव पुंवदित्यर्थः। ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तिप्रत्यस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदात्तादित्वाऽभावादञभावे "तस्य समूहः" इत्यणि प्रकृतिभावाट्टिलोपाऽभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्यकैयटयोरित्यलम्। शत्रन्तादिति। प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिरयं युवच्छब्दः। तत उगिल्लक्षङीपः पुवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेरञि यौवतमिति रूपमिति भावः।
तत्त्व-बोधिनी
इनण्यनपत्ये १००३, ६।४।१६४
यौवनमिति। युवतिशब्दस्यानुदात्तादित्वादञि प्राप्ते अणर्थमिह पाठः। पुंवद्भावात्तिप्रत्ययनिवृत्तिः। "अन्िति प्रकृतिभावः। ननु "भस्याऽढे"इत्यत्र "अढे तद्धिते विवक्षिते पुंवद्भावः"इत्यभ्युपगमात्तद्धितोत्पत्तेः प्रागेव तिप्रत्ययनिवृत्तौ सत्यां "किन्युवृषी"ति कनिनन्ततया आद्युदात्तत्वादण् सिद्धएवेति चेत्। सत्यम्। अतएव भाष्ये मिक्षादिषु युवतिशब्दपाठः प्रत्याख्यातः। "इह युवतिशब्दपाठसामथ्र्यात्पुंवद्भावो ने"ति वृत्तिकारोक्तिरप्यत एव निरस्ता। नन्वेवं "गार्भिणं यौवतं गणे"इत्यादिप्रयोगा न सङ्गच्छेरन्नित्याशङ्क्याह---शत्रन्तादिति।