ईषदर्थे वर्तमानस्य कोः का इत्ययम् आदेशो भवति। कामधुरम्। कालवणम्। अजादावपि परत्वात् कादेश एव भवति। काम्लम्। कोष्णम्।
ईषन्मधुरं "कामधुरम्()" इति। "कुगतिप्रादयः"
२।२।१८ इति समासः। "कुशब्दः पापार्थः" इत्येतत्तु प्रायिकमुपाधिवचनमित्युक्तम्()। तत्र प्रायिकत्वे चैतदेव कादेशवचनं ज्ञापकम्()। "काम्लम्()" इति। ननु चात्र "कोः कत्तत्पुषषे" (६।३।
१०१) इति कदादेशेन भवितव्यम्()? इत्यत आह--"अजादावपि" इत्यादि॥