कर्मधारये इति वर्तते। प्रतिगत एनसा, प्रतिगतमेनो वा यस्य स प्रत्येनाः। तस्मिन्नुत्तरपदे कर्मधारये कुमारस्य आदिरुदात्तो भवति। कुमारप्रत्येनाः। उअदात्तः इत्येतदत्र सामर्थ्याद् वेदितव्यम्। पूर्वपदप्रकृतिस्वर एव ह्ययम् आदेरुपदिश्यते।
"प्रतिगत एनसा" इति। अनेन "अवादयः क्रुष्टाद्यर्थे तृतीयया" (वा।९२) इति तत्पुरुषत्वं प्रत्येनःशब्दस्य दर्शयति। "प्रतिगतमेनो वा यस्य" इति। अनेन बहुव्रीहित्वम्()। "कुमारप्रत्येनाः" इति। "अत्वसन्तस्य चाधातोः"
६।४।१४ इति दीर्घः।
ननु च नेह सूत्र उदात्तग्रहणमस्ति,
तत्? कथमुदात्तस्वरो लभ्यते? इत्याह--"उदात्त इत्येतदिह" इत्यादि।
किं पुनस्तत्सामथ्र्यम्()? इत्याह--"पूर्वपद" इत्यादि। न हि प्रकृतिस्वरादन्य एव स्वर उच्यते।
किं तर्हि? प्रकृतिस्वर एव; यतः प्रकृत्येति वर्तते। तत्रैवमभिसम्बन्धः क्रियते--प्रकृतिभावेन कमारशब्दस्य यः स्वरः प्राप्तः स आदेर्भवतीति। एवञ्च सामथ्र्यादुदात्तो लभ्यते। स एव हि कुमारशब्दस्य प्रकृतिभावेन स्वरः॥