द्वि त्रि इत्येताभ्याम् उत्तरेसु पाद् दत् मूर्धनित्येतेषु उत्तरपदेषु यो बहुव्रीहिः, तत्र विभाषा अन्तः उदात्तो भवति। द्वौ पादो अस्य द्विपात्, द्विपात्। त्रिपात्, त्रिपात्। द्विदन्, द्विदन्। त्रिदन्, त्रिदन्। द्विमूर्धा, द्विमूर्धा। त्रिमूर्धा, त्रिमूर्धा। पादिति कृताकरलोपः पादशब्दो गृह्यते। दतिति कृतददादेशो दन्तशब्दः। मूर्धनिति त्वकृतसमासन्तो नान्त एव मूर्धन्शब्दः। तस्य एतत् प्रयोजनम् असत्यपि समासान्ते ऽन्तोदात्तत्वं यथा स्यात्। एतदेव ज्ञापकम्, अनित्यः समासान्तो भवति इति। यदा ऽपि समासान्तः क्रियते तदा अपि बहुव्रीहेः कार्यित्वात् तदेकदेशत्वाच् च समासान्तस्य अन्तोदात्तत्वं पक्षे भवत्येव। द्विमूर्धः। त्रिमूर्धः। द्वित्रिभ्याम् इति किम्? कल्याणमूर्धा। पादादिषु इति किम्? द्विहस्तम्। बहुव्रीहौ इति किम्? द्वयोर् मूर्धा द्विमूर्धा।
"द्वित्रिभ्याम्()" इति। दिग्योगलक्षणा
२।३।२९पञ्चमी। "पाद्दन्मूर्धसु" इति। "यस्य च भावेन भावलक्षणम्()"
२।३।३७ इति भावलक्षणा सप्तमी। बहुव्रीहीः कार्यी। अत आह--"द्वि त्रि इत्येताभ्याम्()" इत्यादि। "द्विपात्(), त्रिपात्()" इति। "पादस्य लोपोऽहस्त्यादिभ्यः"
५।४।१३८, "संख्यासुपूर्वस्य"
५।४।१४० इत्यकारलोपः। पादशब्दो घञन्तत्वादाद्युदात्त इति पाच्छब्दश्चाद्युदात्तः एव भवति। "द्विदन्()" इति। "वयसि दन्तस्य"
५।४।१४१ इति दत्रादेशः। दन्तशब्द आद्युदात्त इत्युक्तम्()। तेन दत्रादेशोऽपि स्थानिवद्भावेनाद्युदात्त एव भवति। "द्विमूर्धा" इति। मूर्धशब्दः "()आन्नुक्षन्पूषन्प्लीहन्()" (द।उ।६।५५) इत्यादिना रन्()प्रत्ययान्तो निपात्यते। तेनाद्युदात्तः। "मूर्धन्()" इत्यादि। "द्वित्रिभ्यां ष मूध्र्नः"
५।२।११४ ["षो" इति मु। पाठः] इति षः समासान्तः प्राप्नोति, स न कृतः। तेनात्र नान्त एव मूर्धशब्दः।
किं पुनः कारणमकृतसमासान्त एव मूर्धञ्शब्द उपात्तः? इत्यात आह--"तस्य" इत्यादि। यदि कृतसमासान्त उपादीयेत तदा सत्येव समासान्तेऽन्तोवात्तत्वं स्यात्(), असति न स्यात्()।
तस्मादसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यादित्येतत्? प्रयोजनमकृतसमासान्तनिर्देशस्य। ननुच नित्यमेव समासन्तेन भवितव्यम्(),
तत्? कुतस्तस्यासत्त्वम्()? इत्यत आह--"एतदेव" इत्यादि। यदिदमस्य प्रयोजनस्य सम्पादनारथमकृतसमासान्तस्य मूर्धन्()शब्दस्योपादनाम्(), एतदेव ज्ञापकम्--अनित्यः समासान्तो भवतीति। तेन द्विमूर्धत्यादिप्रयोग उपपन्नो भवति। यदि तह्र्रकृतसमासान्त इह मूर्धन्()शब्द उपात्तः, एवं सति यदा समासान्तः क्रियते तदान्तोदात्तेन न भवितव्यम्()। कृतसमासान्तस्य शब्दान्तरत्वादित्यत आह--"यद्यपि" इत्यादि। इह हि बहुव्रीहिः कार्यी, तदेकदेशित्वं च समासान्तस्य। एकदेशोऽस्यासतीत्येकदेशी, स बहुव्रीहिरेकदेशी यसय समासान्तस्य स तदेकदेशी, तद्भावसतदेकदेशित्वम्()।
एतेन बहुव्रीह्रवयवत्वं समासान्तस्य दर्शयन्? कृतसमासान्तस्य शब्दान्तरत्वं निरस्यति। तदेवं यस्मादिह बहुव्रीहिः कार्यी तदेकदेशित्वञ्च समासान्तस्य, तस्माद्यदापि समासान्तः क्रियते तदापि पक्षेऽन्तोदात्तत्वं भवत्येव। "कल्याणमूर्धा" इति। कल्याणशब्दः "नब्विषयस्य" (फि।सू।२।२६) इत्याद्युदात्तः। "द्वयोर्मूर्धा" इति। अत्र नित्यमेव समासान्तोदात्तत्वं भवति॥