संज्ञायां विषये बहुव्रीहौ समासे मित्र अजिन इत्येतयोः उत्तरपदयोः अन्तः उदात्तो भवति। देवमित्रः। ब्रह्ममित्रः। वृकाजिनः। कूलाजिनः। कृष्णाजिनः। संज्ञायाम् इति किम्? प्रियमित्रः। महाजिनः। ऋषिप्रतिषेधो मित्रे। विश्वामित्र ऋषिः।
"देवमित्त्रो ब्राहृमित्त्रः" इति। देवब्राहृशब्दावुक्तस्वरौ। "अमिचिमिदिशसिभ्यः क्त्रः" (द।उ।८।८६) इति मित्त्रशब्दोऽन्तोदात्तः। "वृकजिनः" इति। प्रकृतिविकारयोर्भेदस्याविवक्षितत्वाद्वृकविकारे वृकशब्दोऽत्र वर्तते। वृकमजिनमस्य वृकाजिनः।
वृकशब्दः "प्राणिनां कुपूर्वाणाम्? (फि।सू।२।३०) ["प्राणिनां कुपूर्वम्()"--फि।सू।] इत्याद्युदात्तः। "श्यास्त्याह्वेञविभ्य इनच्()" (द।उ।५।१२) इत्यधिकृत्य "अजेरज च" (द।उ।५।१४) इतीनजादेशश्च। तेनाजिनमन्तोदात्तम्()। "कूलाजिनः" इति। कु इति निपातः, तस्मिन्नुपपदे "ला आदाने" (धा।पा।
१०५८) इत्येतस्मात्? "अन्येष्वपि दृश्यते"
३।२।१०१ इत डः, "अन्येषामपि दृश्यते"
६।३।१३६ इति पूर्वपदसय दीर्घत्वम्()। तेन कूल इत्यन्तोदात्तः। "कृष्णाजिनः" इति। "इण्सिञ्जिदीङुण्यविभ्यो नक्()"(द।उ।५।३५) इत्यधिकृत्य "कृषेर्वर्णे" (द।उ।५।३७) इति नक्()। तेन कृष्णोऽन्तोदात्त-।
"प्रियमित्त्रः" इति। प्रीणातीति प्रियः, "इगुपध"
३।१।१३५ इत्यादिना कः। तेन प्रियोऽन्तोदात्तः। "महाजिनः" इति। "नत्र्तमाने पृषद्बृहन्महजजगच्छतृवच्च"
(द।उ।६।५) इत महच्छब्दोऽन्तोदात्त॥