शितेः उत्तरपदं नित्यं यदबह्वज् भसच्छब्दवर्जितं बहुव्रीहौ समासे तत् प्रकृतिस्वरम् भवति। शितिपादः। शित्यंसः। शित्योष्ठः। पादशब्दो वृषादित्वादद्युदात्तः। अंसौष्ठशब्दौ च प्रत्ययस्य नित्त्वात्। शितेः इति किम्? दर्शनीयपादः। नित्यग्रहणम् किम्? शितिककुत् ककुदस्य वस्थायां लोपो विधीयते। तत्र अवस्थाया अन्यत्र शितिककुद इति बह्वजुत्तरपदं भवति इति तेन न नित्याबह्वच्। अबह्वचिति किम्? शितिललाटः। बहुव्रीहौ इति किम्? शितेः पादः शितिपादः। अभसतिति किम्? शितिभसद्। शितिशब्द आद्युदात्तः। पूर्वपदप्रकृतिस्वरापवादो योगः।
"शितिपादः" इति। शितिशब्दः "वर्णानां तणतिनितान्तानाम्()" (फि।सू।२।३३) इति फिषाद्युदात्तः। "अंसौष्ठशब्दौ" इत्यादि। "अम रोगे" (धा।पा।
१७२०) इत्यस्मात्? "अमः सन्()" (पं।उ।५।२१) इति सन्प्रत्ययार्न्तोऽसशब्दो व्यत्पाद्यते। ओष्ठशब्दोऽपि "उषिकुषिगर्त्तिब्यस्थन्()" (द।उ।६।२९) इति थन्प्रत्ययान्तः। तेनैतौ प्रत्ययस्य नित्वादाद्युदात्तौ।
"दर्शनीयपादः" इति।
दर्शनीयशब्दोऽनीयर्? प्रत्ययन्तः। तेन "उपोत्तमं रिति"
६।१।२११ इति मध्योदात्तः। ततोऽत्र पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरेष्वपि प्रत्युदाहरणेषु।
कथं पुनः ककुदशब्दो नित्यं बह्वज्? न भवति? इत्याह--"ककुदस्यावस्थायां लोपः" इत्यादि। "शितिललाटः" इति। "लल ईप्सायाम्()" (धा।पा।१६८७),
अस्मात्? "उणादयो बहुलम्()"
३।३।१ इत्याटप्रत्ययः, तेन ललाटशब्दो मद्योदात्तः। "शितिपादः" इति। शितेः पाद इत्यत्र समासस्वर एव भवति। "शितिभसत्()" इति "शृ()दृ()भसोदिः" (द।उ।६।४२) इति भसच्छब्दो व्युत्पाद्यते। ततोऽयमन्तोदात्त-॥