कन्थान्ते तत्पुरुषे समासे नपुंसकलिङ्गे चिहणादीनाम् आदिरुदात्तो भवति। चिहणकन्थम्। मडरकन्थम्। मडुर इति केचित् पठन्ति। मडुरकन्थम्। चिहण। मडर। मडुर। वैतुल। पटत्क। चैत्तलिकर्णः। वैतालिकर्णिः इत्यन्ये पथन्ति। कुक्कुट। चिक्कण। चित्कण इत्यपरे पथन्ति। आदिः इति वर्तमाने पुनरादिग्रहणं पूर्वपदाद्युदात्तार्थम्।
पूर्वेणोत्तरपदस्य सिद्धेऽयं पूर्वपदस्याद्युदात्तत्वार्थ आरम्भः।
चिनोतेः क्विप्? चित्()।
हन्तेः पचाद्यच्? हनः।
निपातनात्? तलोपो णत्वं च चिहणः। "मल मल्ल धारणे"--(दा।पा।४९३,४९४) आभ्यां रप्रत्ययः,
लस्य निपातनात्? तलोपो णत्वं च चिहणः। "मल मल्ल धारणे"--(धा।पा।४९३,४९४) आभ्यां रप्रत्ययः,
लस्य निपातनात्? डत्वम्()। मडरमडडरशब्दौ मद्योदात्तौ। विगता तुला तस्य स वितुलः, तस्यायं वैतुलः। अणन्तत्वादन्तोदात्तः। पटदिति कायतीति "कै गै शब्दे" (धा।पा।९१६,९१७) "आतोऽनुपसर्गे कः"
३।१।१३६ पटत्कोऽन्तोदात्तः। चित्तमादत्त इति "ला आदाने" (धा।पा।
१०५८) इत्यस्मादाङ्पूर्वादस्मादेव निपातनात्? कः--चित्तालः,
तस्यापत्यमिति "अत इञ्? ४।१।९५ चैत्तालिः, स कर्मावस्य चैत्तालिकर्णः। बहुव्रीहिरयं पूर्वपदप्रकृतिस्वरेणाद्युदात्तः। पूर्वपदं हि ञित्स्वरेणाद्युदात्त्म्()। अन्ये त्विञन्तं चैत्तालिकर्णिरिति समुदायमधीयते। "कुक वृक आदाने" (धा।पा।९१,
९२) अस्मात्? क्विप्()--कुक्(); "कुट कौटिल्ये" (धा।पा।१३६६) इत्यस्मादिगुपधलक्षणः कः, कुटः, कुकः, कुटः, कुक्कुटः। समासस्वरेणान्तोदात्तः। चिनोतेः क्विप्(), चित्(), कणतेः पचद्यचि कणः, चितः कणाश्च#इक्कणः, तकारस्य ककारो निपातनात्()। चित्करण इत्यपरे पठन्ति। चिहणादयश्चैते मुष्यनामधेयानि चेति स्मर्यते।
अथादिग्रहणं किमर्थम्? यावतादिरनुवर्तत एव? इत्यत आह--"आदिरिति वर्तमाने" इत्यादि। पूर्वकं ह्रादिगरहणमुत्तरपदाभिसम्बद्धम्()। पूर्वपदानां चिहणादीनामाद्युदात्तत्वमिष्यते।
तस्मात्? पूर्वपदभूतानां तेषामाद्युदात्तत्वं यथा स्यादित्येवमर्थं पुनरादिगरहणम्()॥