सूत्रम्
ख्यत्यात् परस्य॥ ६।१।१०८
काशिका-वृत्तिः
ख्यत्यात् परस्य ६।१।११२
ङसिङसोः इति वर्तते, उतिति च। ख्यत्यातिति खिशब्दखीशब्दयोः तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणं, ताभ्यां परस्य ङसिङसोः अत उकारादेशो भवति। सख्युरागच्छति। सख्युः स्वम्। पत्युरागच्छति। पत्युः स्वम्। खीशब्दस्य उदाहरणम् सह खेन वर्तते इति सखः, तम् इच्छति इति क्यच् सखीयति। सख यतेः क्विप् सखीः, तस्य ङसिङसोः सख्युः इति। तीशब्दस्य अपि लूनम् इच्छति लूनीयति, लूनीयतेः क्विपि लुप्ते, लून्युराग्च्छति। लून्युः स्वम्। निष्ठानत्वं पूर्वत्रासिद्धम्
८।२।१ इत्यसिद्धम्। विकृतनिर्देशादेव इह न भवति, अतिसखेरागच्छति, सेनापतेरागच्छति इति। सखिशब्दस्य केवलस्य घिसंज्ञा प्रतिषिध्यते, न तदन्तस्य।
लघु-सिद्धान्त-कौमुदी
ख्यत्यात्परस्य १८३, ६।१।१०८
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥
न्यासः
ख्यत्यात्परस्य। , ६।१।१०८
"ख्यत्यादिति खिशब्दखीशब्दयोस्तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणम्()" इति। यमादेशे कृते तुल्यं रूपमिति विशेषाभावात्()।
अथ कस्मादत्राकारान्तयोरेव ख्यशब्दत्यशब्दयोरिदं ग्रहणं न भवति? केवलस्य ख्यशब्दस्य त्यशब्दस्यासम्भवादिति चेत्()? न; यदि केवलौ न स्तः,
तदन्तानां तर्हि मुख्यगोसंख्यादीनामपत्य गार्हपत्यादीनाञ्च ग्रहणमस्तु? नैतदस्ति; एवं हि--"सख्युरसम्बुद्धौ"
७।१।९२, "पत्युर्नो यज्ञसंयोगे"
४।१।३३ इति निर्देशौ नोपपद्येयाताम्()।
"सह खेन वत्र्तत इति सखः" इति। "तेन सहेति तुल्ययोगे"
२।२।२८ इति बहुव्रीहिः, "वोपसर्जनस्य"
६।३।८१ इति सहस्य सभावः। "सखीयति" इति। "क्यचि च"
७।४।३३ इतीत्त्वम्()। "सखीः" इति।
क्विप्? "अतो लोपः"
६।४।४८ इत्यकारलोपः "लोपो व्योरवलि"
६।१।६४ इति यकारस्य च। "लुनम्" इति। "ल्वादिभ्य"
८।२।४४ इति निष्ठानत्वम्()। ननु च नायं तीशब्दः, तत्कथं तस्योदमुदाहरणमित्यत आह--"निष्ठानत्वम्()" इत्यादि।
अथेह कस्मान्न भवति--अतसखेरागच्छति, सेनापतेरागच्छतीति,
असति ह्रत्रापि खिशब्दः तिशब्दश्च? इत्यत आह--"विकृतनिर्देशात्()" इत्यादि। योऽयं ख्यत्यादित्यागन्तुकेनाकारेम यणादेशं कृत्वा विकृतनिर्देशः कृतस्तस्यैतदेव प्रयोजनम्()--यत्र यणादेशः, तत्रैव यथा स्यात्()। न चात्र यणादेशोऽस्ति, अतो न भवति, अन्यथा हि विकृतनिर्देशोऽनर्थकः स्यात्()। ननु च लध्वर्थः स्यात्(),
अन्यथा हि "खितिखीतीभ्यः" इत्युच्यमाने गौरवं स्यात्()? एवं मन्यते--यदि यतर यण्? न भवति, तत्रापि भवितव्यम्(), तदा खीतीभ्यामित्येवं ब्राऊयात्()। न चैवमुच्यमाने ह्यस्वन्ताभ्यान्न प्राप्नोति;
खिशब्दात्? "सख्युर्यः", (५।१।
१२६) तिशब्दात्? "पत्युर्नो यज्ञसंयोगे"
४।१।३३ इति निर्देशाभ्यामेव सिद्धेः अत्र हि सखिपतिशब्दयोग्र्रहणम्(), न सखीपतीशब्दयोः। न हीह पतीशब्दस्य यज्ञेन संयोगोऽस्ति, नापि "सह खेन वत्र्तते" इत्यादिना प्रकारेम व्युत्पादितो यः सखीशब्दस्तत उत्पन्नो यः प्रत्ययः स प्रकृत्यर्थाभिधाने समर्थो भवति; यतोऽभिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति। तस्माद्विकृतनिर्देशस्य पूर्वोक्तमेव प्रयोजनमिति।
अथ स यणादेशोऽतर कस्मान्न भवति यस्मिन्? सत्युत्त्वेन भवितव्यम्()? "घेङिति" (७।३।
१११) इति गुणेन बाधितत्वादिति चेत्()? न; "शेषो ध्यसखिः
१।४।७ इति धिसंज्ञाप्रतिषेधादिति चेत्यत आह--"सखीशब्दस्य" इत्यादि। अत्र च "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति" (व्या।प।८९) इति प्रतिषेधो हेतुः।
परस्येति किमर्थम्()? पूर्वपरयोर्मा भूत्()। इतश्चारभ्य पूर्वपरयोरित्येतन्नानुवत्र्तते॥
बाल-मनोरमा
ख्यात्यात्परस्य २५३, ६।१।१०८
ख्यत्यात्परस्य। "खिखी"-त्यनयोः, ति-ती"त्यनयोश्च कृतयणादेशयोः "ख्य" "त्य" इति निर्देशः। यकारादकार उच्चारणार्थः। "एङः पदान्ता"दित्यतोऽतीत्यनुवर्तते। तच्च परस्येति सामानाधिकरण्यात्षष्ठ()न्ततया विपरिणम्यते। "ङसिङसोश्चे"त्यो "ङसिङसो"रित्यनुवर्तते। अवयवषष्ठ()एषा। ततश्च "ङसिङसोरवयवस्य अत" इति लभ्यते। "ऋत् उ"दित्यत, उदित्यनुवर्तते। "एकः पूर्वपरयोः" इति तु निवृत्तम्, "पर"ग्रहणसामथ्र्यात्। अन्यथा "ख्यत्या"दिति पञ्चमीनिर्देशादेव सिद्धे किं तेन?। तदाह--खितिशब्दाभ्यामित्यादिना। सख्युरिति। सख्यस् इति स्थिते यकारादकारस्य उकारे रुत्वविसर्गौ।
तत्त्व-बोधिनी
ख्यत्यात्परस्य २१४, ६।१।१०८
ख्यत्यात्। पञ्चमीनिर्देशादेव"परस्ये"ति लब्धे"परस्ये"ति ग्रहणमेकः पूर्वपरयोरिति नवृत्तमिह तु नाधिक्रियते इहि ध्वननार्थम्। ख्यश्च त्यश्चेति समाहारद्वन्द्वे ख्यत्यं, तत्र खिखीशब्दयोः कृतयणादेशयोरनुकरणं "ख्य"इति। एवं तितीशब्दयोस्त्येति। उभयत्राप्यकार उच्चाणार्थौ न तु मुख्यापत्यादिशब्दैकदेशानुकरणमिदं, "सख्युर्यः""पत्युर्नः,""सङ्ख्यायाः संवत्सरसङ्ख्यस्य च", "आपत्यस्य चे" त्यादिनिर्देशादित्यभिप्रेत्याहखितिशब्दाभ्यामित्यादि। एवं च यत्र यण्प्रवृत्तिः तत्रैवोत्त्वं न त्वतिसखेरित्यादौ। न चैवं यणा निर्देशस्योक्तप्रयोजनत्वाद्भस्वान्तयोरेव ग्रहणं स्यान्न तु दीर्घन्तयोरिति शङ्क्यम्। निर्देशस्य ह्यस्वदीर्घसाधारणत्वाच्छास्त्रस्य बहुविषयत्वसंभवे तत्सङ्कोचस्याऽन्याय्यत्वाच्चेति भावः।