सूत्रम्
न संख्याऽऽदेः समाहारे॥ ५।४।८९
काशिका-वृत्तिः
न सङ्ख्यादेः समाहारे ५।४।८९
सङ्ख्यादेस् तत्पुरुषस्य समाहारे वर्तमानस्य अहःशब्दस्य अह्नादेशो न भवति। पूर्वेण प्राप्तः प्रतिषिद्यते। द्वे अहनी समाहृते द्व्यहः। त्र्यहः।
समाहारे इति किम्? द्वयोरह्नोः भवः द्व्यह्नः। त्र्यह्नः। तद्धितार्थ इति समासे कृते अणः आगतस्य द्विगोर् लुगनपत्ये
४।१।८८ इति लुक्।
न्यासः
न संख्यादेः समाहारे। , ५।४।८९
"द्व्यहः" इति। "अह्नष्टखोरेव"
६।४।१४५ इति टिलोपः॥
बाल-मनोरमा
न सङ्ख्यादेः समाहारे ७८३, ५।४।८९
न सङ्ख्यादेः। अह्नादेश इति। "अह्नोऽह्नः" इत्यतस्तदनुवृत्तेरिति भावः। ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारेऽभावादेव सिद्धे सङ्ख्यादेरिति व्यर्थमित्यत आह--स्पष्टार्थमिति। द्व्यह इति। समाहारे द्विगुः। टच्, "रात्राह्ने"ति पुंस्त्वम्। सङ्ख्यादित्वात्प्राप्तस्याऽह्नादेशस्य निषेधः। त्र्यह इति। त्रयाणामह्नां समाहार इति विग्रहः। समासादि द्व्यहवत्।