कृञः इत्येव। सत्यशब्दातशपथे डाच् प्रत्ययो भवति कृञो योगे। सत्यशब्दो ऽनृतप्रतिपक्षवचनः। क्वचित् तु शपथे च वर्तते, सत्येन शापयेद् द्विजम् इति, तस्य अयं प्रतिषेधः। सत्याकरोति वणिक् भाण्डम्। मयैतत् क्रेतव्यम् इति तथ्यं करोति। अशपथे इति किम्? सत्यं करोति ब्राह्मणः।
सत्यादशपथे। "डा"जिति शेषः। सत्याकरोति भाण्डमिति। रत्नादिद्रव्यजातमित्यर्थः। सत्यशब्दोऽत्र तथ्ये वर्तते। "सत्यं तथ्यमृतं सम्य"गित्यमरः। क्रेत्वयमितीति। "एतावतैव मूल्येनेदं क्रयणार्हं नातोऽधिकमूल्येने"त्येवं यथाभूतार्थं वदतीत्यर्थः। सत्यंकरोति विप्र इति। शपथं करोतीत्यर्थः।