पूर्वम्: ५।४।३२
अनन्तरम्: ५।४।३४
सूत्रम्
कालाच्च॥
५।४।३३
काशिका-वृत्तिः
कालाच् च
५।४।३३
वर्ने च अनित्ये
५।४।३१
, रक्ते
५।४।३२
इति द्वयम् अप्यनुवर्तते। कालशब्दातनित्ये वर्तमानात् रक्ते च कन्प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते कालकः पटः। कालिका शाटी।
न्यासः
कालाच्च्।
, ५।४।३३
बाल-मनोरमा
कालाच्च
, ५।४।३३
कालाच्च। द्व्यमनुवर्तत इति। अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम्। अनित्ये वर्णे उदाहरति--कालकं मुखं वैलक्ष्येणेति। लज्जाऽसूयादिनेत्यर्थः। रक्ते उदाहरति--कालकः पट इति। "नील्यादिने"ति शेषः।