पूर्वम्: ५।२।८१
अनन्तरम्: ५।२।८३
सूत्रम्
कुल्माषादञ्॥
५।२।८२
काशिका-वृत्तिः
कुल्माषादञ्
५।२।८३
कुल्माषशब्दातञ् प्रत्ययो भवति, तदस्मिन्नन्नं प्राये संज्ञायाम्
५।२।८१
इत्येतस्मिन्नर्थे। ञकारो वृद्धिस्वरार्थः। कुल्माषाः प्रायेण अन्नमस्याम् कौल्माषी पौर्णमासी।
न्यासः
कुल्माषादञ्।
, ५।२।८२
संज्ञाग्रहणेन पूर्वेण कनः प्राप्तावसत्यां वाक्येनाभिधाने प्राप्ते मत्वर्थीये मतुबादाविदमुच्यते। "व्कौल्माणी" इति। "टिड्ढाणञ्"
४।१।१५
इति ङीप्॥
बाल-मनोरमा
कुल्माषादञ्
१८५८, ५।२।८२
कुल्माषादञ्। कनोऽपवादः। "स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः" इत्यमरः।