सूत्रम्
तेन निर्वृत्तम्॥ ५।१।७८
काशिका-वृत्तिः
वक्ष्यति तेन विर्वृत्तम् ५।१।७९
मासेन निर्वृत्तम् मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। कालातित्यधिकारः व्युष्टाऽदिभ्यो ऽण्
५।१।९६ इति यावत्। तेन निर्वृत्तम्
५।१।७८। तेन इति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् विर्वृत्तम् इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। अह्ना विर्वृत्तम् आह्निकम्। आर्धमासिकम्। सांवत्सरिकम्।
लघु-सिद्धान्त-कौमुदी
तेन निर्वृत्तम् ११५३, ५।१।७८
अह्ना निर्वृत्तम् आह्निकम्॥
लघु-सिद्धान्त-कौमुदी
इति ठञोऽवधिः। (प्राग्वतीयाः) १० ११५३, ५।१।७८
लघु-सिद्धान्त-कौमुदी
अथ त्वतलोरधिकारः ११५३, ५।१।७८
न्यासः
तेन निर्वृत्तम्?। , ५।१।७८
"आह्निकः" [आह्निकम्()-काशिका] इति। "अल्लोपोऽनः"
६।४।१३४ इत्यकारलोपः। टिलोपस्तु "अह्नष्टखोरेव"
६।४।१४५ इति नियमादिह न भवति॥
बाल-मनोरमा
तेन निवृत्तम् १७२०, ५।१।७८
तेन निर्वृत्तम्। तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ्स्यादित्यर्थः। आह्निकमिति। "अह्नष्टखोरेवे"ति नियमान्न टिलोपः।
तत्त्व-बोधिनी
तेन निर्वृत्तम् १३२९, ५।१।७८
तेन निर्वृत्तम्। तृतीयान्कतात्कालवाचिनष्ठञ्स्यात्। तेनेति करणे तृतीया। चतुरथ्र्यान्तर्गते "तेन निर्वृत्त"मित्यत्र तु कर्तरि तृतीयेति विशेषः। उभयत्राप्यन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः। आह्निकमिति। "अह्नष्टखोरेवे"ति नियमात्। "नस्तद्धिते"इति टिलोपो न।