सूत्रम्
परिषदो ण्यः॥ ४।४।१०१
काशिका-वृत्तिः
परिषदो ण्यः ४।४।१०१
परिषच्छब्दाद् ण्यः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। परिषदि साधुः पारिषद्यः। णप्रत्ययो ऽप्यत्र इष्यते। तदर्थं योगविभागः क्रियते। परिषदः णो भवति, परिषदि साधुः पारिषदः। ततः ण्यः। परिषदः इत्येव।
न्यासः
परिषदो ण्यः। , ४।४।१०१
बाल-मनोरमा
परिषदो ण्यः १६३३, ४।४।१०१
परिषदो ण्यः। "सप्तम्यन्तात्साधुरित्यर्थ" इति शेषः। योगेति। परिषद इति प्रथमो योगः। परिषदो णः स्यादित्यर्थः। ततो "ण्यः" इति द्वितीयो योगः। परिषदो ण्यः स्यादित्यर्थः।