तत्र इत्येव। सप्तमीसमर्थात् ङ्याप्प्रातिपदिकात् प्रायभवः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रायशब्दः साकल्यस्य किंचिन्नयूनताम् आह। स्रुघ्ने प्रायेण बहुल्येन भवति स्रौघनः। माथुरः। राष्ट्रियः। प्रायभवग्रहणम् अनर्थकं तत्र भवेन कृतत्वात्। अनित्यभवः प्रायभवः इति चेद्, मुक्तसंशयेन तुल्यम्।
"प्रायभवग्रहणमनर्थकम्" इति। वैचित्र्यादन्यस्यार्थस्याभावादनर्थमित्युच्यते। वैचित्र्येण तु सार्थकमेव।
कस्मात् पुनरर्थकमिति? "तत्र भवेन कृतार्थत्वात्" इति। यत् "प्रायभवः"इत्यस्य साध्यम्, तस्य "तत्र भवः"
४।३।५३ इत्यनेनैव साधितत्वादितिभावः। यो हि राज्ये प्रायेण भवति तत्रासौ भवत्येव। ततश्च तत्र भवे तस्यान्तर्भावात् "तत्र भवः" (४।३।
५३) इत्यनेनैव कृतं सम्पादनम्रिति किं प्रायभवग्रहणेन? "अनित्यभवः" इत्यादिना परस्योत्तरमाशङ्कते।स्यादेतत्-- अनित्यभवः प्रायभवो नित्यभवस्तत्र भव इति,
तस्मात् तत्र भवेन प्रायभव्सयासंग्रहान्न सिध्यति? इत्याशङ्क्याह-- "मुक्तसंशयेन तुल्यम्" इति। मुक्तस्त्यक्तः संशयो येन तत् मुक्तसंशयम्।
न्याय्यस्तत्र भवोऽयमिति यो निश्चितस्तेन तुल्यं भवति। तथा हि-- रुआघ्ने भवो देवदत्तः रुआऔघ्न इत्युच्यते, न चासौ रुआउघ्ने सदा भवति, अवश्यं हि कदाचिदुदग्देसादीनपक्रामति, अथ च तत्रभवप्रत्ययो भवति।
यदि च नित्यभवस्तत्र भवः? जिह्वामूले भवो वर्णः जिह्वामूलीय इत्यत्र "तत्र भवःर"
४।३।५३ इत्यधिकारे जिह्वामूलाङ्गुलेश्छः" (४।३।क६२) इति च्छो न स्यात्, न हि वर्णो नित्यं जिह्वामूले भवति। तस्मात् प्रायभव कककककककककस्य तत्रभवान्तर्भवात् ततो न ण्यतिरिच्यत इत्नर्थकं प्रयभवग्रहणम्॥