तसिश्च प्रत्ययो भवति तेन एकदिकित्येतस्मिन् विषये। पूर्वेण् घादिसु अणादिषु च प्राप्तेषु अयम् अपरः प्रत्ययो विधीयते। स्वरादिपाठादव्ययत्वम्। सुदामतः। हिमवत्तः। पिलुमूलतः।
तसिश्च। "तेनैकदिगि"त्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः। इकार उच्चारणार्थः। स्वरादिपाठादिति। "स्वरादिनिपातमव्यय"मिति प्रकरणे "तद्धितश्चासर्वविभक्ति"रित्यत्र "तसिलादयः" इतिपरिगणने तसेः पाछादित्यर्थः।