वृद्धातित्येव। भवच्छब्दाद् वृद्धात् ठक्छसौ प्रत्ययौ भवतः शैषिकौ। छस्य अपवादौ सकारः पदसंज्ञार्थः। भवतस्त्यदादित्वाद् वृद्धसंज्ञा। भावत्कः। भवदीयः। अवृद्धात् तु भवतः शतुरणेव भवति। भावतः।
"सकारः पदसंज्ञार्थः" इति। "सिति च"
१।४।१६ इति पदसंज्ञा यथा स्यात्। तस्याञ्च सत्यां भवदीयमतित्यत्र "झलां जशोऽन्ते"
८।२।३९ इति जश्त्वं भवति। "भावत्कः" इति। "इशुसुक्तान्तात् कः"
७।३।५१। "अवृद्धात्तु भवतः" इति। शत्रन्तादिति॥