कुलान्यटति इति कुलता। पररूपं निपातनात्। कुलटायाः अपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वा इनङादेशो भवति। आदेशार्थं वचनं, प्रत्ययश्च पूर्वेण एव सिद्धः। कौलटिनेयः, कौलटेयः। या तु कुलान्यटन्ती शीलं भिनत्ति, ततः क्षुद्राभ्यो वा
४।१।१३१ इति परत्वाड् ढ्रका भवितव्यम्। कौलटेरः।
कुलन्यटतीति कुलटा। नन्वकः सवर्णे दीर्घत्वे कृते कुलाटेति भवितव्यमित्यत आह-- "पररूपम्" इत्यादि। "पूर्वेणैव" इति।"स्त्रीभ्यो ढक्"
४।१।१२० इत्यननैव। व्यवहितेऽपि पूर्वव्यपदेशः प्रवत्र्तते, यथा-- मथुरायाः पाटलिपुत्रं पूर्वमिति।
"कौलटेरः" इति। एयादेशे कृते वलि यलोपः॥
कुलटाया वा। इनङ्()मात्रमिति। व्याख्यानादिति भावः। पूर्वेणैवेति। "स्त्रीभ्यो ढ"गित्यनेनेत्यर्थः। कुलानि गृहाणि अटतीति रुलटा। शकन्ध्वादित्वात्पररूपम्। अत्रेति। "कुलटाया वे"ति सूत्रे इत्यर्थः। पक्षे ढ्रगिति। ढ्रगपि कदाचिद्भवतीत्यर्थः। कौलटेर इति। कुलटाया ढ्रकि ढकारस्य एयादेशे "लोपो व्यो"रिति यकारलोप इति भावः।
कुलटाया वा।शकन्धवादित्वात्पररूपपमत एव निपातनाद्वा। सती भिक्षुक्यवेति। अत्र=अनङ्विधौ। तथा चोक्तममरेण---"अथ बान्धकिनेयः स्याद्बन्धुलश्चाऽसतीसुतः। कौलटेरः कौलटीयो भिक्षुकी तु सती यदि। तदा कोलटीनेयोऽस्याः कौलटेयोऽपि चात्मजः"इति। केचित्तु क्षुद्राया अपि इनङा तृतीयं रूपं कौलटिनेय इतीच्छन्ति। पक्षे ढ्रगिति। ढगपि पक्षे भवत्येवेति भावः।