सूत्रम्
लुक् स्त्रियाम्॥ ४।१।१०९
काशिका-वृत्तिः
लुक् स्त्रियाम् ४।१।१०९
आङ्गिरसे इत्येव। वतण्डशब्दादाङ्गिरस्यां स्त्रियां यप्रत्ययस्य लुक् भवति। लुकि कृते शार्ङ्गरवादिपाठान् ङीन् भवति। वतण्डी। आङ्गिरसे इति किम्? वातण्ड्यायनी। शिवाद्यणि तु वातण्डी।
न्यासः
लुक् स्त्रियाम्। , ४।१।१०९
"वातण्ड()आयनी" इति। लोहितादिलक्षणः ष्फः॥