करणे हनः इति वर्तते। स्तम्बशब्दे उपपदे करणे कारके हन्तेः कः प्रत्ययो भवति। चकारातप् च, तत्र घनादेशः। स्तम्बघ्नः, स्तम्बघनः। स्त्रियां स्तम्बघ्ना, स्तम्बघना इति इष्यते। करणे इत्येव, स्तम्बघातः।
"तत्र च" इति। अनन्तरोक्तेऽपि। "घनादेशः"इति। "मूर्त्तौ घनः"
३।३।७७ इत्यतः "घनः" इत्यतस्यानुवृत्तेः। "स्तम्बघ्नः"इति। पूर्ववत् कुत्वोपधालोपौ॥