सूत्रम्
समानकर्तृकेषु तुमुन्॥ ३।३।१५८
काशिका-वृत्तिः
समानकर्तृकेषु तुमुन् ३।३।१५८
इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति। तुमुन् प्रकृत्यपेक्षम् एव समानकर्तृट्वम्। इच्छति भोक्तुम्। कामयते भोक्तुम्। विष्टि भोक्तुम्। वाञ्छति बोक्तुम्। समानकर्तृकेषु इति किम्? देवदत्तम् भुञ्जानम् इच्छति यज्ञदत्तः। इह कस्मान् न भवति, इच्छन् करोति? अनभिधानात्।
न्यासः
समानकर्त्तृकेषु तमुन्। , ३।३।१५८
पूर्वेण लिङ्लोटोः प्राप्तयोस्तुमुन् विधीयते। "तुमुनप्रकृत्यपेक्षमेव"इति। यस्माद् धातोस्तुमुन् , अतः प्रत्यासत्तेस्तदपेक्षमेव समानकर्त्तृकत्वं ज्ञायते-- तुमुन्प्रकृतेर्यः कत्र्ता स चेदिच्छार्थानामपि भवतीति। "इच्छति भोक्तुम्" इति। योऽत्रेषेः कत्र्ता स एव भुजेरपीत्यस्तीह समानकर्त्तृकेषु लिङलोटौ च परत्वात् प्राप्नुतस्तौ मा भूतमित्येवमर्थम्, {अर्थः-मुद्रितः पाठः,} ण्वुल् मा भूदित्येव {अर्थश्च-मुद्रितः पाठः} च।
"देवदत्तं भुञ्जानमिच्छति" इति। अत्र भूजेर्देवदत्तः कत्र्ता, इच्छतेस्ततोऽन्य इति नास्ति समानकर्त्तृकत्वम्, तेन वत्र्तमानविवक्षायां लडेव भवति। "अनभिधानात्" इति। न ह्रत्र तुमुनोत्पद्यमानेन विवक्षतोऽर्थः शक्यतेऽभिधातुमिति। अबिधानलक्षणाश्च कृत्तद्धितसमासाः। अथ वा-- "अनभिधानात्" इति। इच्छन् कर्त्तुमित्यभिधानस्याभावादित्यर्थः। लोकप्रसिद्धानां हि शास्त्रेऽन्वाख्यानं क्रियते, न त्विच्छन् कर्त्तुमित्यादयो लोकप्रसिद्धाः॥
तत्त्व-बोधिनी
समानकर्तृकेषु तुमुन् १५०९, ३।३।१५८
समानकर्तृकेषु। अक्रियार्थेति। "भोक्तुमिच्छती"त्यत्र भोजनविषयिणीच्छेति प्रतीयते न भोजनार्थेच्छेति। अतः पूर्वेणाऽप्राप्तिरिति भावः। सूत्रस्थसमानशब्द एकतावचन इत्याह-- एककर्तृकेष्विति। एकेति किम्?। पुत्रस्य पठनमिच्छति। पुत्रस्येति कर्तरि षष्ठी। पुत्रकर्तृकं पठनमित्यर्थः। इह सूत्रे "समानकर्तृके"ति पदाभाऽवे "पुत्रस्य पठितुमिच्छती"ति प्रयोगः स्यात्। देवदत्तं भुञ्जानमिच्छतीति काशिका। प्रयोगाऽभावेऽपि इच्छन् कर्तुं गच्छतीत्यादौ तु "तुमुन्()ण्वुलौ" इति सूत्रेण स्यादिति। तच्चिन्त्यम्। करोतीत्यर्थ तुमुनः प्राप्तेरेवाऽभावात्, तस्य भावार्थकत्वात्। इह च लटा कर्तृप्रतीतेः। कंचेच्छन्कर्तुमिति प्रयोगो नेष्यते इति रिक्तं वचः, कर्तुमच्छन्निति प्रयोगस्य सकलसंमतत्वात्। पदानुपूव्र्याश्चाहर पात्रं पात्रमाहरेत्यादविव स्वेच्छायत्तत्वात्। विस्तरस्त्विह मनोरमादावनुसन्धेयः। वष्टीति। वश कान्तौ, कान्तिरिच्छेति वशधातुरपीच्छार्थकः।