पञ्चम्यन्त उपपदे जातिवर्जिते जनेर् डः प्रत्ययो भवति। बुद्धिजः। संस्कारञः। दुःखजः। अजातौ इति किम्? हस्तिनो जातः। अश्वाजातः।
"बुद्धिजः" इति। "जनिकृर्त्तुः प्रकृतिः"
१।४।३० इति बुद्धेरपादानत्वादपादाने पञ्चमी।, तदस्योपपदत्वम्। बुद्ध्यादिशब्दा जातिशब्दा न भवन्ति; बुद्ध्यादीनामात्मगुणत्वात्॥