करणि उपपदे हन्तेर् धातोः णिनिः प्रत्ययो भवति भूते कले। पितृव्यघाती। मातुलघाती। कुग्सितग्रहणं कर्तव्यम्। इति मा भूत्, चौरं हतवान्।
"पितृव्यघाती" इति। "हनस्तोऽचिण्णलोः"
७।३।३२ इति तत्वम्। "हो हन्तेर्ञ्णिन्नेषु"
७।३।५४ इति घत्वम्, "सौ च"
६।४।१३ इति दीर्घत्वम्। "कुत्सितग्रहणं कत्र्तव्यम्िति प्रत्ययर्थस्य विशेषणम्। गृह्रतेऽनेनेति ग्रहणम्। तत् पुनव्र्याख्यानम्। एतदुक्तं भवति-- येन कुत्सितः कत्र्ता प्रत्ययार्थो गृह्रते तद्व्याख्यानं कत्र्तव्यमिति। तत्रेदं व्याख्यानम्-- वक्ष्यमाणबहुलग्रहणमपकृष्येह सम्बन्धः क्रियते, तेन पितृव्यवधादिकां प्रतिषिद्धां क्रियां कुर्वाणो यः कत्र्ता कुत्स्यते, तत्रव, नान्यत्र॥