आढ्यादिषु कर्मसु उपपदेषु च्व्यर्थेषु अच्व्यन्तेषु करोतेः धातोः करणे कारके ख्युन् प्रत्ययो भवति। च्वेर् विकल्पेन विधानाद् द्विविधाः च्व्यर्थाः, च्व्यन्ता अच्व्यन्ता श्च। तत्र च्व्यन्ताः पर्युदस्यन्ते। अनाढ्यं आढ्यं कुर्वन्ति अनेन आढ्यङ्करणम्। सुभगङ्करणम्। स्थूलङ्करणम्। पलितङ्करणम्। नग्नङ्करणम्। अन्धङ्करणम्। प्रियङ्करणम्। च्व्यर्थेषु इति किम्? आढ्यं तैलेन कुर्वन्ति अभ्यञ्जयन्ति इत्यर्थः। प्रकृतेरविवक्षायाम् अभूतप्रादुर्भावे ऽपि प्रत्युदाहरणं भवति। अच्वौ इति किम्? आढ्यीकुर्वन्त्यनेन। ननु च ख्युना मुक्ते ल्युटा भवितव्यम्, न च ल्युटः ख्युनश्च विशेषो ऽस्ति, तत्र किं प्रतिषेधेन? एवं तर्हि प्रतिषेधसामर्थ्यात् ख्युनि असति ल्युडपि न भवति, तेन ल्युटो ऽप्ययम् अर्थतः प्रतिषेधः। उत्तरार्थश्च च्विप्रतिषेधः क्रियते।
"अच्चौ"इति। बहुव्रीहिः-- न विद्यते च्विर्यस्मिस्तत्राच्चौ। तत्पुरुषो वा -- च्वेरन्योऽच्विः। अच्व्यन्त इत्यर्थः। अच्वादित्याढ()आदीनां विशेषणम्। एकवचनं तु प्रत्येकं तैरभिसम्बध्यते। "आढ()आदिषु" इत्यादिना कर्त्तृविषषणत्वमाढ()आदीनपाकरोति। "करणे कारके"इत्यनेनापि करणस्योपपदत्वं निरस्यति।
अथैवं कस्मान्न विज्ञायते-- करण उपपदे आढ()आदिषु कर्त्तृष्विति? तत्र केचिदाहुः-- आढ()आदयोऽत्र शब्दप्रधानाः, न च तथाभूतानां कर्त्तृत्वमुपपद्यते। शब्दप्रधानत्वं पुनस्तेषां च्व्यन्तेष्वच्वाविति प्रतिषेधाद्विज्ञायते। शब्द एव हि च्व्यन्तो भवति, नार्थः। च्व्यन्तता शब्दस्यैव विद्यते, नार्थस्य। तत्र यद्येतेऽर्थप्रधानाः स्युः; च्व्यर्थेष्विति विशेषणमनुपपन्नं स्यात्, अच्वाविति च प्रतिषेधोऽनर्थकः स्यात्। पर्युदासोऽप्यनर्थकः स्यात् ; न; त्सयाप्याढ() इत्येवंशब्दः सुखति, सुभगशब्दः सुखयीत्यादिप्रयोगेषु कत्र्तत्वदर्शनात्। व्याख्यानादेवार्थनिश्चयोऽद्वेष्यः। करणस्य प्रत्ययार्थत्वेन निर्देशात् "कत्र्तरि कृत्"
३।४।६७ इति न व्याप्रियते। ननु च नेमे च्व्यर्थाः, ते नियोगत एव च्व्यन्ताः, इह त्वच्व्यन्ता आढ()आदयो न सम्भवन्त्येव, त()त्क पर्युदस्यन्त इत्याह-- "च्वेर्विकल्पेन विधानात्" इत्यादि। विकल्पेन विधानं तु "समर्थानां प्रथमाद्वा"
४।१।८२ इत्यतो वाग्रहणानुवृत्तेः।
"आढ()ं तैलेन कुर्वन्ति" इत्यादि। न ह्रसौ प्रागनाढ()स्तैलेनाढ्यः क्रियते,
किं तर्हि? आढ()स्तैलेनाभ्यज्यते। अनेकार्थत्वाद्धातूनां करोतिरत्राभ्यञ्जने वत्र्तते। तेनाभूतप्रादुर्भावे नास्तीति भवति प्रत्युदाहरणम्। अथ वा-- भवतु नामाभूतप्रादुर्भावः, तथापि युक्तमेवेदं प्रत्युदाहरणमिति दर्शयितुमाह-- "प्रकृतेरविवक्षायाम्" इत्यादि। न ह्रभूतप्रादुर्भावः इत्येवं सर्वोऽभूतप्रादुर्भावश्च्व्यर्थो भवति, किन्तु विशिष्ट एव; यस्मात् तत्र प्रकृतिग्रहणं दर्शयिष्यते। प्रकृतिः कार्यस्य पूर्वावस्था। तेन यत्राश्रितं कार्यं पूर्वारम्भश्च कार्यसय् भाव्यमानतया विवक्ष्यते तत्र स अभूतप्रादुर्भावः, स एव च्व्यर्थः। एतदुक्तं भवति-- यदा कार्यस्य पूर्वावस्था विवक्ष्यते तदा च्व्यर्थो भवति, नाभूतप्रादुर्भावविवक्षायामिति। इह तु पूर्वावस्थामपरामृश्यानाश्रितपूर्वारम्भे कार्येऽभूततद्भावमात्रं विवक्षितम्। तेन सत्यप्यभूततद्भावे च्व्यर्थो न भवति। अतो भवत्येतत् प्रत्युदाहरणम्-- "आढ्यीकुर्वन्ति" इति। "अभूततद्भावे कृभ्वस्थियोगे"
५।४।५० इत्यादिना च्विः, "अस्य च्वौ"
७।४।३२ इतीत्त्वम्। "ल्युटा भवितव्यम्" इति। "करणाधिकरणयोश्च"
३।३।११७ इत्यनेन ल्युड्()विधानात्। यदि ल्युटा भवितव्यं ततः किमित्याह-- "न च" इत्यादि। उभयत्रापि तदेव रूपम्, स एव स्वरः। रूपं तावदभिन्नम्, उभयत्रापि समासस्य नित्यार्थत्वात्; तथा हि ख्युन्युपपदसमासेन भवितव्यम्,
ल्युट()पि गतिसमासेन? "अनव्ययस्य"
६।३।६५ इति च प्रतिषेधान्मुमा नि भवितव्यमिति रूपभेदो नास्ति। स्वरोऽपि न भवति भेदकः; ख्युनि सति यत्रैव नित्स्वरो भविष्यति, ल्युट()पि लित्स्वरस्तत्रैव। "प्रतिषेधसामथ्र्यात्" इति। आढ्यीकरणमित्यस्य रूपस्य निरासाय "अच्वौ"
३।२।५६ इति प्रतिषेधः क्रियते। एवं तस्य निरासः कृतो भवति यदि ख्युना मुक्ते ल्युडपि भवति, अन्यथा हि स्यादेव। तदेव रूपमिति प्रतिषेधः स्यादिति वैयथ्र्यमिति भावः। "अर्थतः" इति। न शब्दतः। अर्थस्तु प्रतिषेधसामथ्र्यमेव। "उत्तरार्थश्च" इति। उत्तरसूत्रस्योपयोगं दर्शयति। तत्र खिष्णुच्खुकञ्भ्यां मुक्ते तृजादिभिर्भवितव्यमित्यस्ति विशेषः।ख्युनः खकारो मुमर्थः, नकारः स्वरार्थः॥
आढ()ङ्करणमिति।लिङ्गविशिष्टिपरिभाषया आढ()शब्देऽप्युपपदे यदा ख्युन् तदापि "खित्यनव्ययस्ये"ति ह्यस्वेन एतदेव रूपम्। आढ्यीकुर्वन्त्यनेनेति। नन्विह ख्युनोऽभावेऽपि "करणाधिकरणयोश्चे"ति ल्युटा भवितव्यमित्यत आह--- प्रतिषेधसामथ्र्यादिति। तथाहि आढ्यीकरणमिति रूपं ल्युट्ख्युनोस्तुल्यम्। न च ख्युनि मुम्ह्यस्वौ स्यातामिति वाच्यम्, "अनव्ययस्ये"ति पर्युदासात्। "ऊर्यादिच्विडाचश्चे"ति निपातसंज्ञकत्वेन च्व्यन्तस्य अव्ययत्वात्। न च ख्युनि सति "उपपदमति"ङिति नित्यसमासो लभ्यते, ल्युटि तु नेति वाच्यं, ल्युट()पि गतिसमासस्य संभवात्। तस्यापि नित्यसमासत्वात्। न च स्त्रीप्रत्यये विशेषः, ल्युटि "टिड्ढे"ति सूत्रेण,ख्युनि तत्रत्येन ख्युन उपसङ्ख्यानेन च ङीपस्तुल्यत्वात्। नापि स्वरे विशेषः, ल्युटि लित्स्वरेण, ख्युनि नित्स्वरेण कृञ उदात्तत्वाऽविशेषात्। न चोत्तरार्थमच्वावित्युक्तमिति वाच्यं, केवलोत्तरार्थत्वे हि तत्रैव ब्राऊयात्। तदेतदुक्तम् ल्युडपि नेति। भाष्यमते त्विति। भाष्यवार्तिकस्वरसेन ल्यडिष्ट इति केवलोत्तरार्थत्वं लभ्यते। अतस्तद्विरोधाद्वृत्तिकृन्मतमयुक्तमिति कैयटः।