छन्दसि इति निवृत्तम्। ग्ला जि स्था इत्येतेभ्यो धातुभ्यः, चकारात् भुवश्च तच्छीलादिषु क्ष्नुः प्रत्ययो भवति। ग्लास्नुः। जिष्णुः। स्थास्नुः। भूष्णुः। गिच्चायं प्रत्ययो न कित्। तेन स्थः ईकारो न भवति। क्ङिति च
१।१।५ इत्यत्र गकारो ऽपि चर्त्वभूतो निर्दिश्यते, तेन गुणो न भवति। श्र्युकः किति
७।२।११ इत्यत्र अपि गकरो निर्दिश्यते, तेन भुव इड् न भवति। क्ष्तोर्गित्त्वान् न स्थ ईकारः कङितोरीत्वशासनात्। गुणाभावस्त्रिषु स्मार्यः श्र्युको ऽनिट्त्वं गकोरितोः। दंशेश्छन्दस्युपसङ्ख्यानम्। दंक्ष्णवः पशवः।
अथ स्थास्नुरित्यत्र "घुमास्थागापा"
६।४।६६ इत्यादिसूत्रेण कस्मादीत्वं भवतीत्याह-- "पिच्चायम्" इत्यादि। ईत्त्वं क्ङिति। तत्र "दीङो युडचि क्ङिति"
६।४।६३ इत्यनुवृत्तेः। न चायं कित्, न चायं ङित्;
किं तर्हि? गित्। गकारस्य त्वश्रवणम्,चत्र्वभूतस्य निर्देशात्। यदि तर्हि गिदयम्, जिष्णुरित्यत्र गुणः प्राप्नोति, यस्मात् "क्ङिति च"
१।१।५ इति क्ङिति प्रत्यये गुणः प्रतिषिध्यते, न गितीत्यत आह-- "क्ङिति च" इत्यादि। न हि "क्ङिति च"
१।१।५ इत्यत्र ककारङकारावेव निर्दिश्येते,
किं तर्हि? गकारोऽपि कृतचर्त्वः,तेन गित्यपि गुणो न भवति। भूष्णुरित्यत्र तर्हि श्रयुकः किति"
७।२।११ इट्()प्रतिषेध उद्यमानो गिति न स्यादित्यत आह-- "श्रयुकः" किति इत्यादिना गकारश्चत्र्वभूतो निर्दिश्यते" इति प्रकृतेन सम्बन्धः। "तेन" इति। गकारस्य चर्तवभूतस्य निर्देशेनेति।
"कस्नोर्गित्वात्ित्यादि। गकार इत्संज्ञको यस्य स गित्, तद्भावो गित्त्वम्। तस्मात् गित्त्वान्न स्यास्नुरित्यत्रेकारः। तिष्ठतेरीकारो न भवति। कस्मात् पुनर्गित्तवादीकारो न भवतीत्याह-- "कङितोरित्वशासनात्" इत्यादि। ककारेऽकार उच्चारणार्थः। यस्मात् क्ङितीत्वमुच्यते, अयं तु गित्, तस्मात् क्ङिति विधीयमानमीत्वं गित्वादिह न प्राप्नोति। यद्येवम्, जिष्णुरित्यत्र गुणः प्राप्नोतीत्यत आह-- "गुणाभावः"इत्यादि। त्रिषु ककारगकारङकारेष्वित्संज्ञकेषु यो गुणप्रतिषेधः स स्मत्र्तव्य- = ज्ञातव्यः। "क्ङिति च"
१।१।५ इत्यत्र गकारश्चत्र्वभूतो निर्दिष्टः। यदि तर्हि गिदयम्, "भूष्णुरित्यत्र "श्रयुकः किति"
७।२।११ इत्यीट्()प्रतिषेधो न स्यादित्यत आह-- "श्रयुकोऽनिट्()चत्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदि गकारश्चत्र्वभूतः "श्रयुक किति"
७।२।११ इतीट्प्रतिषेधो न स्यादित्यत आह-- "शयुकोऽनिट्()त्वम्" इत्यादि। गकारोऽपि ततश्चत्र्वभूतो निर्दिश्यते। तन ककारगकारयोद्र्वयोरपीत्संज्ञकयोः श्रयुकोऽनिट्()त्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदिगकारश्चत्त्र्वभूतः "श्रयुकः किति"
७।२।११ इत्यत्र निर्दिश्यते," हशि च"
६।१।११० इत्युत्वं प्राप्नोति,
तस्यासिद्धत्वात्? सौत्रत्वान्निर्देशश्यासंहितया पाठान्न भविष्यतीत्यदोषः। वामनस्य त्वेतत् सर्वमनभिमतम्। यथा नाभिमतं तथा "क्ङिति च"
१।१।५ इत्यत्र प्रतिपादितम्। "दंशेः"इत्यादि। उपसंख्यानशब्दः प्रतिपादने वत्र्तते। "दन्श दंशने" (धा।पा।८९८) इत्येतस्मादपि क्स्नुप्रत्ययस्योपसंख्यानम् = प्रतिपादनं कत्र्तव्यम्। तत्रेदं प्रतिपादनम्-- पूर्वसूत्राच्चकारोऽनुत्र्तते, स चानुक्तसमुच्चयार्थः, तेन दंशेरपि भविष्यतीति। "दंक्ष्णवः" इति। व्रश्चादिना
८।२।३६ षत्वम्, "षढोः कः सि"
८।२।४१ इति कत्वम्। "अनिदिताम्"
६।४।२४ इत्यनुनासिकलोपो न भवति, क्स्नोर्गित्वात्। ये तु कित्वमिच्छन्ति, तैरिह नकारलोपप्रतिषेधः "नाञ्चेः पूजायाम्"
६।४।३० इत्यत्र नेति योगविभागेन कत्र्तव्यः। यत्नान्तरं वा तैरास्थेयम्-- नकारस्यानुस्वारः, तस्य परसवर्णः॥
ग्लाजिस्थश्च। निवृत्तमिति। व्याख्यानादिति भावः। चाद्भुव इत्यनुवकृष्यते। ग्ला, जि, स्था एषां द्वन्द्वात्पञ्चमी। ग्ला, जि,स्था, भू इत्येभ्यः क्स्नुः स्यात्तच्छीलादिष्वित्यर्थः। ककार इत्। "स्थास्नु" इत्यत्र कित्त्वलक्षणं "घुमास्थे" तीत्त्वमाशङ्क्याह-- गिदयमिति। सूत्रे चर्त्वेन ककारनिर्देश इति भावः। गित्त्वान्न गुण इति। "क्क्ङिति चे"त्यत्र गस्य चर्त्वेन ककारान्तरप्रश्लेषादिति भावः। ननु भूष्णुरित्यत्र इट् स्यात्, "श्र्युकः किती"ति कित एव इण्निषेधात् , अस्य च गित्त्वादित्यत आह-- श्र्युक इति। प्रश्लेषादिति। चर्त्वेनेति भावः।